Book Title: Siddhanta Kaumudi Bal Manorama
Author(s): Gopal Shastri Nene, Sadashiv Shastri Joshi
Publisher: Jaykrishnadas Haridas Gupta

View full book text
Previous | Next

Page 973
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९६४ परिशिष्टेपाया "वाह ऊ" इति सूत्रस्थोठ्ग्रहणशापिततया सापादिकरवेन यथोदेशपक्षे तदृष्टया त्रैपादिकश्चुत्वस्यासिद्धसया तत्र तस्याः परिभाषाया अप्रवृत्त्याऽल्लोपस्यासियवाभावात् । कार्यकालपक्षे यथपि परिभाषाया विधिदेशस्थतया तदृष्टया श्चुत्वस्यानसिद्धतया तया श्चुवस्यासिद्धता बोधयितुं शक्यते इति पुनर्दोषतादवस्थ्यं तथाप्येकपक्षेणेष्टसिद्धौ पक्षान्तरेण दूषणदानस्यानुचित. स्वाक्ष दोषः । वस्तुतस्तु तत्र पक्षेऽपि प्रसिद्धपरिभाषायात्रिपाषां न प्रवृत्तिरित्यन्यत्र विस्तरः। ५२-न चाल्लोपस्य स्थानिवत्वम् , दोघंविधौ तनिषेधात्। बहिरङ्गपरिभाषा तक्तन्यायेन न प्रवर्तते। प्रतिदोन्नः । अयं भावः, प्रतिदिवन्शदात् द्वितीयाबहुवचने शसि प्रत्यये भसंशायाम् "आल्लोपोऽनः" इत्यनेनाकारस्य लोपे "हलि च" इत्यनेन नकारे हलि परे वकारान्तदिवधातोरुपधाया इकारस्य दीर्घे रुत्वे विसर्गे च 'प्रतिदीनः इत्यस्य सिद्धिः। पत्र शहते-भल्लोपस्य "अचः परस्मिन् पूर्ववियो" इत्यनेन स्थानिभूतादचो लुप्ताकारात्पूर्वस्वेन दृष्टस्य इकारस्य दीर्चे कर्तव्ये स्थानिवद्भावेन वकारान्तधावोईलम्बवहितपूर्वस्वाभावेन कथं दीर्घ इति । तत्रोत्तर-दीचे कर्तव्ये स्थानिवद्भावस्य "न पदान्तद्विवचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजबविधिषु" इति सूत्रेण निषेधात् दीर्घस्य प्रवृत्तिरिति । न च "प्रसिद्ध बहिरङ्गमन्तरले" इति परि. भाषया बाह्यशसप्रत्ययनिमित्तकालोपस्य बहिरणतयाऽन्तर्मतनकारनिमित्तकावेनान्तरणदीर्घवि. धायक "हलि च" इतिशास्त्रदृष्टयाऽसिद्धत्वात्पुनरपि दोर्षप्रवृत्तिः कथमिति वाच्यम् , यथोदेशपक्षे "प्रसिद्धं बहिरङ्गमन्तरङ्गे" इत्वस्याः परिभाषायाः 'वाह ठ" इति सूत्रस्थोठग्रहणशापित. तया सापादिकत्वेन तदृष्टया "हलि च" इति शास्त्रस्य त्रैपादिकत्वेनासिद्धतया तविषये तत्परि. भाषाया अप्रवृत्तः। कार्यकालपक्षेण तु दोषदानमनुचितं पक्षान्तरेणेष्टसिद्धरित्युक्तम् । १३योगविभागसामर्थ्यात् 'अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा इति न्यायं बाधित्वा "एकाजुत्तरपदे” इति गत्वमपि निवर्त्यते । नकारे परे कुत्वविधिसामर्थ्यादल्लोपो न स्थानिवत् । वृत्रहनः । अयमर्थः, पत्रहन्शदाद् द्वितीयाबहुवचने शसि भसंशायाम् "म. लोपोऽनः" इत्यकारलोपे "हो इन्तेणिन्नेषु'' इत्यनेन इकारस्य कुवेनान्तरतम्या धकारादेशे रुत्वे विसर्गे च वृत्रघ्नः' इति सिद्धम्। नन्वत्र भएकाजुत्तरपदे णः" इत्यनेन नकारस्य णत्वं कुतो नेति चेत् ? न, "प्रत्पूर्वस्य" इत्यनेन हस्वाकारपूर्वकस्यैव हन्ते कारस्य णस्वनियमनादत्र नका. रस्याकारपूर्वकत्वाभावात् गत्वाप्रवृत्त । नच "अनन्तरस्य विषिर्वा भवति प्रतिषेधो वा" इति न्यायेन "प्रत्पूर्वस्य" इति सूत्रं "इन्तेः" इत्यस्यैव नियामक नतु एकाजुत्तरपदे णः" इत्यस्येति वाच्यम् , तथा सति "हन्तेरत्पूर्वस्य' इत्येकयोगेनैव “न्त:" इत्यस्यात्पूर्वेतरत्र निवृत्तौ सिद्धायां योगविभागस्य वैययन तत्सामादत्रोक्तन्यायाप्रवृत्तेर्योधनेन विप्रकृष्टस्यापि"एकाजुत्तरपदे णः" इत्यादेस्तेन नियमावा नचालोपस्य "प्रच: परस्मिन्" इति स्थानिवद्भावेन कथं कुखमिति वाच्यम्, एवं सति सर्वत्रैव नकारे परे इन्तेईकारस्यालोपेनैव सम्मवाचत्र च स्थानिवद्भावस्य नियमत:प्राप्तथा नकारे परे कुत्व विधानस्य वैयर्थेन तरसामादत्र विषये स्थानिवद्भावाप्रवृत्तेः कल्पनेनादोषाता ५४-इह दोघे कर्तव्ये संयोगान्तलोरस्यासिद्धत्वं न भवति बहुलग्रहणात् । तथाच भवन्नुक्षन्निति निपातनान्मघशब्दान्मतुपा च भाषायामपि शब्दद्वयसिद्धिमाश्रित्यैसत्स प्रत्याख्यातमाकरे । हविर्जक्षिति निःशको मखेषु मघवानसौ इति भाष्टिः । अयं For Private and Personal Use Only

Loading...

Page Navigation
1 ... 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060