Book Title: Shodshak Prakaran
Author(s): Mitranandsuri, Bhavyadarshanvijay
Publisher: Padmavijay Ganivar Jain Granthmala

View full book text
Previous | Next

Page 159
________________ (१४७ ષોડશક પ્રકરણ - ૧૧ ऊहो-वितर्क: ऊहापोह-विज्ञानादिरहितं आय-प्रथमं श्रुतमयं, तद्युक्तं-ऊहादियुक्तं मध्यम-चिन्तामयं भवेत् ज्ञानं-द्वितीयं, चरमं-भावनामयं तृतीयं हितकरणफलमस्येति स्वहितनिर्वर्तनफलं, विपर्ययो-विपर्यासो मिथ्या-ज्ञानंमोहतो-मोहाद् मिथ्यात्त्वमोहनीयोदयाद् ज्ञानत्रयाद् अन्योऽबोध इति ॥६॥ श्रुतमयज्ञानस्य लक्षणमाह-वाक्यार्थेत्यादि । सकलशास्त्रगतवचनाविरोधि-निर्णीतार्थवचनं वाक्यं तस्यार्थमात्रंप्रमाणनयाधिगमरहितं तद्विषयं-तद्गोचरंवाक्यार्थ-मात्रविषयं, न तु परस्परविभिन्नविषयशास्त्रावयवभूतपदमात्रवाच्यार्थविषयं, कोष्ठके-लोहकोष्ठकादौ गतं-स्थितं यद् बीजं-धान्यं तत्सन्निभं अविनष्टत्त्वात् कोष्ठकगतबीजसन्निभं ज्ञानं श्रुतमयमिह-प्रक्रमे विज्ञेयं-वेदितव्यं मिथ्याभिनिवेश:-असदभिनिवेशस्तेन रहितं-विप्रमुक्तं अलं-अत्यर्थम् ।।७।। __ चिन्तामयज्ञानस्य लक्षणामाह-यत्तु इत्यादि। यत्पुनः-महावाक्यार्थजं-आक्षिप्तेतर-सर्वधर्मात्मकवस्तुप्रतिपादकानेकान्तवादविषयार्थजन्यं अतिसूक्ष्मा अतिशय-सूक्ष्मबुद्धिगम्याः शोभना-अविसंवादिन्यो या युक्तयःसर्वप्रमाणनयगर्भाः, तच्चिन्तया-तदालोचनया उपेतं-युक्तं, उदक इव-सलिल इव तैलबिन्दुः-तैललवो विसर्पणशीलं विसर्पि-विस्तारयुक्तम् । चिन्तया निर्वृत्तं चिन्तामयं तज्ज्ञानं स्याद्-भवेत् ॥८॥ भावनाज्ञानलक्षणमाह-ऐदम्पर्यमित्यादि। ऐदम्पर्यं-तात्पर्य 'सर्वज्ञेयक्रियाविषये सर्वज्ञाऽऽज्ञैव प्रधानं कारणं'इत्येवंरूपं, तदगतंतद्विषयं यज्ज्ञानं विध्यादौ-विधि-द्रव्य-दातृ-पात्रादौ यत्नवत्-परमादरयुक्तं,तथैवोच्चैःऐदम्पर्यवत्त्वापेक्षया यत्नवत्त्वापेक्षया यत्नवत्त्वस्य समुच्चयार्थं तथैवेत्यस्य ग्रहणम् । एतत्तुएतत्पुनर्भावनया निर्वृत्तं भावनामयं-ज्ञानं अशुद्धस्य सद्रत्नस्य-जात्य-रत्नस्य स्वभावत एव क्षार-मृत्पुट-पाकाद्यभावेऽपि भास्वर-रूपस्य या दीप्तिस्तया समं अशुद्ध-सद्रत्नदीप्तिसमम् । यथा हि जात्यरत्नस्य स्वभावत एवान्यरत्नेभ्योऽधिका दीप्तिर्भवति, एवमिदमपि भावनाज्ञानमशुद्धसद्रत्नकल्पस्य भव्यजीवस्य कर्ममल-मलिनस्यापि (૧) શ્રુતમયજ્ઞાનનું સ્વરૂપ માત્ર વાક્યર્થને જાણનારું જ્ઞાન મૃતમયજ્ઞાન છે. સકળ શાસ્ત્રનાં વચનોના અવિરોધી અર્થયુક્ત શબ્દોને વાક્ય કહેવાય. એ વાક્યોનો માત્ર અર્થ કરનારું અને પ્રમાણ તથા નયથી રહિત જ્ઞાન તે શ્રુતમયજ્ઞાન. આ જ્ઞાન કોઠી-કોઠારમાં રહેલાં બીજ જેવું તેમજ મિથ્યા અભિનિવેશથી તદ્દન રહિત અર્થાત ખોટી પકડ વિનાનું છે. ૭. (૨) ચિંતામય જ્ઞાનનું સ્વરૂપઃ આ જ્ઞાન, મહાવાક્યર્થને જાણનારું હોય છે. પરસ્પર

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242