Book Title: Shabda Kaustubh Author(s): Bhattoji Bhatt Publisher: Bhattoji Bhatt View full book textPage 7
________________ १ पा. १ आ. शब्दकौस्तुभः । दय एव । श्रूयमाणेन डुपचष्प्रभृतीनां स्मारणं तेनार्थबोध इति चेन्न । लाघवाब्यवस्थितत्वाच्च श्रूयमाणानामेवार्थसंबन्धकल्पनात, औत्प्रेक्षिकस्य स्मरणकल्पने गौरवात, अव्यवस्थापत्तेश्च । पचंति देवदत्तः पचन्तं तं पश्येति तिप्शतृभ्यां स्मारितस्य लट एव बोधकत्वे एकत्र आधाराधेयभावेन संसर्गेण देवदत्ते आख्याताओं यत्नो विशेषणमितरत्र तु अभेदेन संसर्गेण कृदर्थः की विशेषणमिति त्वत्सिद्धांतभङ्गापत्तेश्च । एतेन कधिकरणे आख्यातार्थत्वं कर्तुनिरस्य जजभ्यमानाधिकरणे शानजर्थत्वं स्वीकुर्वन्तो मीमांसका अपि परास्ताः। यत्तु तैरुक्तं शानजंशे कतीर कृदितिव्याकरणं शक्तिग्राहकमस्तीति । तदप्यापाततः । कृद्वाक्यशेषोयमानर्दिष्टार्थेषु ण्वुलादिषपतिष्ठते न तु शत्रादिषु स्थान्यर्थेन निराकांक्षत्वादिति वक्ष्यमाणत्वात् । आकांक्षितविधानं ज्याय इति न्यायात् । अन्यथा क्रियमाण इति कर्मणि शानचो दौर्लभ्यापत्तश्च । किं च कर्तरि कृदिति यत्कर्तृग्रहणं तदेव लः कर्मणीत्यत्राप्यनुवृत्तं तत्कथं कृतां तिडां च वैलक्षण्यम् । अन्यलभ्यत्वादेरुभयत्र साम्यात् । यत्तु नामार्थयोरभेद एव संसर्ग इति हि शानजादौ कती वाच्य इत्युक्तम् । तत्तु पचतिकल्पं पचतिरूप देवदत्त इत्याद्यनुरोधात्तिक्ष्वपि तुल्यम्।तस्मात्पररीत्या न कश्चिच्छत्रन्तात्तिङन्ने वैषम्यहेतुः अस्मद्रीत्या तु भावप्रधानमाख्यातं सत्वप्रधानानि नामानीति निरुक्तकारोक्तःपत्ययार्थप्राधान्यमौत्सर्गिकतिषु त्यज्यते।प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वादितिसूत्राच्च । शत्शानविधौ रूपविधौ च भा. ष्येपि स्फुटमेतत् पाचकोबजतीतिवत्पचतिव्रजतीति प्रयोगोप्यत एव नोपपद्यते । पचतिभवतीत्यादि चोपपद्यते पचतोरूपं पचन्ति रूपमित्यादौ रूपवाद्यन्ते द्विवचनादि न भवति । तस्मातिषुPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 578