Book Title: Shabda Kaustubh
Author(s): Bhattoji Bhatt
Publisher: Bhattoji Bhatt

View full book text
Previous | Next

Page 14
________________ १४ शब्दकौस्तुभः । [१ अ० रिशिष्टप्रायं बाहुलकादिसाध्यानां लोपागमविकारादीनां पायशस्तत्र संग्रहात् । छन्दोविचितिरपि गायत्र्यादिलक्षणद्वारा गायच्या यजतीत्यादिविध्यर्थनिर्णये उपयुज्यते । शिक्षापि वर्णोच्चारणपकारं दर्शयति । कल्पसूत्राण्यपि प्रकरणान्तरपठितस्य न्यायलभ्यस्य शाखान्तराधीतस्य चाङ्गजातस्योपसंहारेण प्रयोगं दर्शयन्ति । तस्मात्पडङ्गानि । तेष्वपि प्रधानं व्याकरणम् । पदपदार्थावगमस्य व्याकरणाधीनत्वात् । वाक्यार्थज्ञानस्य तन्मूलकत्वात् । अत एव तस्य शिक्षायां मुखत्वेन निरूपणं कृतम् । मन्वादिस्मृतिष्वपि अगाध्ययनविधयः प्रसिद्धा एव । तथा चाध्ययनविधिव्याकरणाध्ययनस्यानुष्ठापक इति स्थितम् । तथा च सन्थ्योपासनादेरभावे प्रत्यवायो ऽनुष्ठाने च पापक्षय इति यथाभ्युपेयते तथा व्याकरणाध्ययनस्याप्यननुष्ठाने अनुष्ठाने च बोध्यम् । रक्षाप्रभृतीनि फलान्तराण्यापि सन्ति । तथा च भाष्यम् । कानि पुनरस्य प्रयोजनानि । रक्षोहागमलघ्वसन्देहाः प्रयोजनमिति। अत्र प्रयुज्यते प्रवर्त्यते ऽनेनेति करणल्युडन्तः । प्रयोजयतीति कतृव्युत्पत्त्या बाहुलकात्कतेल्युडन्तो वा । उभयथापि प्र. वर्तकविधिपरः पुल्लिङ्गः प्रयोजनशब्द एकः । फलपरः क्लीबो ऽपरः । उभयोनपुसकमितिनपुंसकैकशेषे एकवद्भावस्य वैकल्पिकतया प्रश्ने बहुवचनमुत्तरे एकवचनं च बोध्यम् । तत्र आगम: प्रवर्तकः । रक्षोहलाघवासन्देहास्तु फलानीति विवेकः । तत्र प्रवर्तक आगमो व्याख्यातः । फलानि व्याख्यायन्ते । तत्र रक्षा वेदसंरक्षणम् । तथाहि । भाषायामदृष्टा लोपागमवर्णविकाराश्छन्दसि दृश्यन्ते । ते केवलप्रयोगशरणैः प्रामादिकाः सम्भाव्येरन् । वैयाकरणस्तु लक्षणदर्शी तदेव रूपं स्थापयति । तत्र लोपोदाहरणम् । त्मना देवेषु विविदे मितद्रुः। त्मना, आत्मनेत्यर्थः ।

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 578