Book Title: Sarvarth Siddhi Author(s): Pujyapadacharya, Publisher: Kallappa Bharamappa Nitbe View full book textPage 8
________________ भूमिका. जनि देवताभिर्यत्पूजितं पादयुगं यदीयम् ॥ ३ ॥ जैनेन्द्र निजशब्दभागमतुलं सर्वार्थसिद्धिः परा । सिद्धान्ते निपुणत्वमुद्धकवितां जैनाभिषेकः स्वकः । छन्दः सूक्ष्मधियं समाधिशतकं स्वास्थ्यं यदीयं विदा-। माख्यातीह स पूज्यपादमुनिपः पूज्यो मुनीनां गणैः ॥ ४॥ . __ अत्र चरमश्लोके भगवत्पूज्यपादप्रणीता ये ग्रन्थाः संगृहीतास्तेषु जैनाभिषेकाख्यो ग्रन्थ इदानी यावन्नास्माभिः कचिप्राप्तः। यदि स ग्रन्थः सुप्रारब्धवशात्कचिल्लभ्येत तर्हि आधु निकानां पञ्चामृताभिषेकवादनिर्णयः सुकर इति मन्यामहे, भगवत्पूज्यपादवचनस्य महीयस्त्वात् ॥ तथा चिकित्साशास्त्रेऽपि श्रीमत्पूज्यपादप्रणीतौ द्वौ ग्रन्थौ उपलभ्यते। तयोरेकस्मिन् चिकित्सा तथाऽन्यस्मिन्नौषधीनां धान्यानां च गुणनिरूपणं दृश्यते । तेन भगवतश्चिकित्साशास्त्रेऽपि नैपुण्यं विशदं भवति ॥ __सर्वार्थसिद्धिग्रन्थारम्भे · मोक्षमार्गस्य नेतारमिति ' श्लोको वर्तते स तु सूत्रकृता भगवदुमास्वातिनैव विरचित इति श्रुतसागराचार्यस्याभिमतमिति तत्पणीतश्रुतसागर्याख्यवृत्तितः स्पष्टमवगम्यते । तथापि श्रीमत्पूज्यपादाचार्येणाव्याख्यातत्वादिदं श्लोक. निर्माणं न सूत्रकृतः किंतु सर्वार्थसिद्धिकृत एवेति निर्विवादम् । तथा एतेषां सूत्राणां द्वैपायकप्रश्नोपयुत्तरत्त्वेन विरचनं तैरेवाङ्गीक्रियते तथा. च उत्तरे वक्तव्ये मध्ये मङ्गलस्याप्रस्तुतत्वाद्वस्तुनिर्देशस्यापि मङ्गलत्त्वेनाङ्गीकृतत्वाच्चोपरितनः सिद्धान्त एवं दाळमामोतीत्यूह्यं सुधीभिः ॥ आस्मिन् दशाध्यायपरिच्छिन्ने तत्त्वार्थसूत्रग्रन्थे भगवता सप्ततत्त्वनिरूपणं सप्रपञ्चं व्यधायि । तत्र प्रथमाध्यायमारभ्य आचतुर्थाध्यायं जीवतत्त्वं, पञ्चमाध्यायेPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 310