Book Title: Saptabhangi Nayapradip
Author(s): Yashovijay Upadhyay, Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 240
________________ ૧૯૮ १९४* * महोपाध्यायश्रीकृत-नयविषयककृतिः । एवम्भूतनयनिरूपणम् : पदार्थव्युत्पत्तिनिमित्तक्रियाकालव्यापकपदार्थसत्ताभ्युपगमपर एवम्भूतः । आह च भाष्यकार: एवं जह सद्दत्थो संतो भूओ तह तयन्नहाभूओ। तेणेवंभूयनओ सद्दत्थपरो विसेसेणं ॥२२५१॥ अयं हि योषिन्मस्तकारूढं जलाहरणादिक्रियानिमित्तं घटमानमेव घटं मन्यते, न तु स्वगृहकोणादिव्यवस्थितमचेष्टनादित्येवं विशेषतः शब्दार्थतत्परोऽयमिति भावः । वंजण-अत्थ-तदुभअं एवंभूओ विसेसेइ ।।२१८५।। इति नियुक्तिदलं । एतन्मते कर्मधारयोऽपि पदानां न भवति सर्वस्यापि वस्तुनः प्रत्येकंमखण्डरूपत्वात्, नीलोत्पलादिसमासश्च द्वयोः पदयोरेकाधिकरणतायां भवति । द्वयोश्चैकाधिकरणं नास्ति, अनन्तरमेव निषिद्धत्वात् इति कर्मधारयसमासोऽपि न युक्तः । नन्वेवं 'नीलघटः' इत्यादि समासात्, 'नीलो घटः' इत्यादि वाक्याच्च शाब्दबोधो न स्यादिति चेत्, गृहीतैवंभूतनयव्युत्पत्तीनां न स्यादेव । अन्येषां तु भवद् अयं भ्रमरूपतां नातिक्रामतीति गृहाण । समभिरूढेन ह्येकपदार्थे भेदसम्बन्धेनेतरपदार्थान्वयाभावव्याप्यत्वं स्वीक्रियते, मया तु सम्बन्धमात्रेणेतरपदार्थान्वयाभावव्याप्यत्वमिति लाघवम् । तस्मान्नीलघट इत्यादौ नीलीभवनान्नीलः घटनाद् घट: इत्यादि क्रियाद्वयासमावेशादनन्वय एव । गुणादिवाचिनः शब्दास्त्वेतन्नये न सन्त्येव, सर्वेषामेव व्युत्पत्त्यर्थपर्यालोचनायां क्रियाशब्दत्वात् । क्रियाशब्दयोरपि च भिन्नयोः परस्परं अनन्वय एव, नील-घटादिविशृङ्खलपदोपस्थित्यनन्तरं तत्संसर्गबोधश्च मानसोत्प्रेक्षामात्रं तथैव च सर्वो व्यवहारः । यदि च नीलो घट: इत्यादेरखण्डनीलघटादिवाक्यार्थबोध: शाब्द एवानुभवसिद्धस्तदा वाक्यार्थस्याखण्डत्वादखण्डवस्तुबोधाय वाक्ये लक्षणैव स्वीकर्तव्या । यथा वेदान्तीनां 'सोऽयं देवदत्तः' इत्यादौ 'तत् त्वमसि' इत्यादौ च । सा च न शक्यसम्बन्धरूपा पदद्वयात्मकवाक्यशक्ययोः सम्बन्धानभ्युपगमात् । किन्तु तात्पर्यसध्रीचीनाखण्डवस्तुविषयकशाब्दबोधजनकशक्तिविशेषस्वभावा । वाक्यस्फोटाभ्युपगमे तु तत एवाभिव्यक्ताखण्डादखण्डवस्तुबोधो नानुपपन्न इति रहस्यम् ।। समर्थिता इति श्रीमद्यशोविजयवाचकैः । श्रीसिद्धान्तानुसारेण नयाः शब्दादयस्त्रयः ॥ इति नयविचारः ॥ एते च नयाः प्रत्यक्षादिस्थलेऽजहवृत्त्या एकोपयोगरूपतया सापेक्षाः प्रमाणतामास्कन्दन्ति, शब्दस्थले च साकाङ्क्षखण्डवाक्यजसप्तभङ्ग्यात्मकमहावाक्यरूपाः प्रमाणं, न निरपेक्षाः । तदुक्तं - Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280