Book Title: Saptabhangi Nayapradip
Author(s): Yashovijay Upadhyay, Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 253
________________ नयोपदेशः ૨૧૧ प्रथा सिद्धोऽजीव इत्येव प्रसिद्धिः, शुद्धनिश्चयश्च स एवेति ॥४८॥ आत्मत्वमेव जीवत्वमित्ययं सर्वसंग्रहः । जीवत्वप्रतिभूः सिद्धेः साधारण्यं निरस्य न ॥४९॥ आत्मत्वमेव जीवत्वं निश्चयान्न साधारण्यम् ॥४९॥ यज्जीवत्वं क्वचिद्रव्यभावप्राणान्वयात् स्मृतम् । विचित्रनैगमाकूतं तज्ज्ञेयं न तु निश्चयात् ॥५०॥ एवं निश्चयतः सिद्धस्याजीवत्वं प्रोक्तं तर्हि कथं-'जीवा मुत्ता संसारिणो य' इत्यादि ? तदुपर्याहयज्जीवत्वं क्वचिद्ग्रन्थे द्रव्यप्राणानां भावप्राणानां चान्वयादेकीकरणात् स्मृतं संसारिसिद्धसाधारणमिति शेषः, तद्विचित्रो विविधावस्थो यो नैगमस्तस्याभिप्रायाज्ज्ञेयम् ॥५०॥ धात्वर्थे भावनिक्षेपात् परोक्तं न च युक्तिमत् । प्रसिद्धार्थोपरोधेन यन्नयान्तरमार्गणा ॥५१॥ धात्वर्थे जीवत्यर्थे भावप्राणारोपणात् परोक्तं निश्चयतः सिद्ध एव जीव इति दिगंबरोक्तं नैव युक्तिमत् ॥५१॥ शैलेश्यन्त्यक्षणे धर्मो यथा सिद्धस्तथाऽसुमान् । वाच्यं नेत्यपि यत्तत्र फले चिन्तेह धातुगा ॥५२॥ यथा शैलेशीचरमसमये निश्चयतो धर्मस्तस्मादग्व्यिवहारतो धर्मः, तथाऽसुमान् जीवोऽपि निश्चयतः सिद्ध एव भविष्यति इत्यपि न वाच्यं । यतो धारयति सिद्धिगतावात्मानमिति धर्म इति फले फैलरूपे धात्वर्थे चिन्ता ॥५२॥ उक्ता नयार्थास्तेषां ये शुद्ध्यशुद्धी वदेत् सुधीः । ते प्रदेशप्रस्थकयोर्वसतेश्च निदर्शनात् ॥५३॥ ये शुद्ध्यशुद्धी स्तः सुधी: पंडितस्ते शुद्ध्यशुद्धी वदेत् प्रदेशप्रस्थकवसतिदृष्टान्तैः ॥५३॥ तथाहि - धर्माधर्माकाशजीवस्कन्धानां नैगमो नयः। तद्देशस्य प्रदेशश्चेत्याह षण्णां तमुच्चकैः ॥५४॥ नैगमो नयो धर्मास्तिकायादिस्कन्धानां तद्देशस्य प्रदेश इति षण्णां तं प्रदेशमुच्चकैः स्वमतनिर्बन्धेनाह ।।५४|| Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280