Book Title: Saptabhangi Nayapradip
Author(s): Yashovijay Upadhyay, Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 262
________________ * महोपाध्यायश्रीकृत-नयविषयककृति: * जातं द्रव्यास्तिकाच्छुद्धाद् दर्शनं ब्रह्मवादिनाम् । तत्रैके शब्दसन्मानं चित्सन्मानं परे जगुः ॥१०९॥ एके ब्रह्मवादिनः शब्दसन्मात्रमिच्छन्ति अन्ये चित्सन्मात्रमिच्छन्ति ॥१०९॥ अशुद्धाद् व्यवहाराख्यात्ततोऽभूत् सांख्यदर्शनम् । चेतनाचेतनद्रव्यानन्तपर्यायदर्शकम् ॥११०॥ व्यवहाराख्यादशुद्धात् ततो द्रव्यार्थिकनयात् सांख्यदर्शनमभूत्, कीदृशं तत् ? चेतनश्चाचेतनद्रव्यं चानन्तपर्यायाश्चाविर्भावतिरोभावात्मकास्तेषां दर्शकं प्रतिपादकमिति ॥११०|| यद्यप्येतन्मतेऽप्यात्मा निर्लेपो निर्गुणो विभुः। अध्यासाद् व्यवहारश्च ब्रह्मवादेऽपि संमतः ॥१११॥ एतन्मते सांख्यमते आत्मा कर्तृत्वादिलेपरहितो गुणस्पर्शशून्यः ॥१११॥ प्रत्युतात्मनि कर्तृत्वं सांख्यानां प्रातिभासिकम् । वेदान्तिनां त्वनिर्वाच्यं मतं तद् व्यावहारिकम् ॥११२॥ अनुत्पन्नत्वपक्षश्च निर्युक्तौ नैगमे श्रुतः। नेति वेदान्तिसांख्योक्त्योः संग्रहव्यवहारता ॥११३॥ तथाप्युपनिषदृष्टि: सृष्टिवादात्मिका परा। तस्यां स्वप्नोपमे विश्वे व्यवहारलवोऽपि न ॥११४॥ तथाप्युपनिषद्वेदान्तदर्शनप्रवृत्तिः ॥११४|| सांख्यशास्त्रे च तन्नात्मव्यवस्था व्यवहारकृत् । इत्येतावत्पुरस्कृत्य विवेकः संमतावयम् ॥११५॥ तात्पर्यविषयीकृत्य अयम् ॥११५।। हेतुर्मतस्य कस्यापि शुद्धोऽशुद्धो न नैगमः । अन्तर्भावो यतस्तस्य संग्रहव्यवहारयोः ॥११६॥ द्वाभ्यां नयाभ्यामुन्नीतमपि शास्त्रं कणाशिना । अन्योऽन्यनिरपेक्षत्वान्मिथ्यात्वं स्वमताग्रहात् ॥११७॥ द्वाभ्यां सामान्यविशेषग्राहिभ्यां संग्रहव्यवहाराभ्यां नयाभ्याम् ॥११७॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280