Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 319
________________ 58 ] Rajasthan Oriental Research Institute, Jodhpur (B.O. Jaipur; 2. Pt. L.N. Sastri Dadhica Collection) श्रीबुन्देलकुलोत्तमाङ्गमुकुटालङ्कारहीरः सुधीः, श्रीमद्रामपदारविन्दनिरतो दारिद्रयविद्रावणः । शौर्याधःकृतफाल्गुनादिव सुधाधीशाग्रगण्योच्चयो विज्ञः कोऽपि सुजानसिंह इति यः ख्यातो धराधीश्वरः ॥७॥ प्रास्यं हास्ययुतं वपुः पुलकितं वाक्यं सुधाधःकिरं, स्वान्तं मोदमयं च लोचनयुगं स्वानन्दपूर्णेक्षणम् । श्रुत्वैवार्थिजनं तदग्रगमनं यस्येदृशी जायते ___ऽवस्था तस्य मयाज्ञया सुकृतिना सत्सम्प्रदायानुगः ॥८॥ न्याये गौतमतोऽधिकः कणभुजः शास्त्रे करणादः परो मीमांसाद्वयकाननाद्वयहरिर्वेदान्तसर्वस्ववित् । योगे योगविदां वरः कपिलजित् साङ्ख्ये कवित्त्वे कविः, साहित्येऽनुपमः स्मृतौ मनुसमः शाब्दे च यः पाणिनिः ॥६।। विश्वामित्रकुलोद्भवो निजकुलोत्तंसः सतामग्रणीः सर्वानन्दकरः प्रभाकर इति ख्यातः प्रभावाधिकः । तस्माद्योऽजनि कृष्णसंज्ञसुमतिः क्षोण्यां सतां सम्मतो भैयाभट्ट इतीह तेन विदुषा ग्रन्थोऽयमारभ्यते ॥१०॥ धर्मादेव भवत्यनर्थविलयः सम्यक् सदानुष्ठिता-- दर्थः कामफलोदयश्च सुधियां मोक्षोऽपि तस्मादिति । बुन्देलेन्द्रसुजानसिंहरुचये रत्नाकरं कुर्वतां भैयाभट्टविदामयं समुचितः सर्वोपकारः सताम् ॥११॥ CLOSING : सुजानधर्मरत्नाख्यो विख्यातोऽस्तु महीतले। रामचन्द्रप्रसादेन कल्पस्थायी भवत्त्वसौ ॥१३॥ साम्प्रतं तत्र समयः सम्यक् समयदीधितिः। निरूप्यते यत्समयमनीषा सुखतो भवेत् ॥१४॥ सर्वाणि नामसनि (मानि)हितस्य राजन् सर्वार्थसिद्धयेहि भवन्ति पुंसः । तस्माद्यथेष्टं खलु देवनामा सर्वेषु कार्येषु जपेत्तु भक्त्येति ॥ ।। इति विष्णुनामसङ्कीर्तनकालस्य निर्णयः॥ सुजानधर्मरत्नेऽस्मिन् समयो नाम दीधितिः । भैया? न विदुषा यथामतिविधे चितः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378