Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 37
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तैजस्कं च धारयन्ति, उपकरणमप्यतिरिक्तं चार्थयन्ते ते उपकरणबकुशाः । ये करचरणनखादीन् कदाचिनिनिमित्तं भूषयन्ति ते देहबकुशाः । इमे द्विविधा अपि शिष्यादि. परिवारादिका विभूति तपःपाण्डित्यादिप्रभवं च यशः प्रार्थयन्ते, प्रमोदन्ते छेदाह श्वातिचारैर्बहुभिः शबलिता अपि कर्मक्षयार्थमुद्यता इत्यादि । कुशीलो द्विविधः आसेवनाकषायभेदात् , ये ज्ञानदर्शनचारित्रतपांसि किञ्चिदुपजीवन्ति ते आसेवनाकुशीला:, ये क्रोधादिभिः कषायै-आनादिगुणान् विराधयन्ति ते कषायकुशीला: मूलोचरगुणविराधकाश्च पञ्चनिर्ग्रन्थमध्ये केऽपि । पश्चानां विस्तरतः स्वरूपं श्री भगवतीसूत्रादिभ्यश्च ज्ञेयम् । ननु ये एवं शिथिलक्रियायुक्ताः कर्तितकेशा उपकरणधारकाः मूलोत्तरगुणविराधकास्ते निर्ग्रन्थाः कथं तेषां स्वरूपं केन प्रकारेण ? इति चेदुच्यते-एतेषां कर्त्तव्यता तावत् प्रवाहमार्गेण नास्ति किन्तु कदाचिन्महति कारणे जाते धावनादिका क्रिया, इति, मूलगुण. विराधनं च मनश्च विराधनादिप्रकारेणेति रहस्यं सदा तत्कर्त्तव्यता नास्तीति ॥ पुनः किम्भूताः १ मदममताजीवनभयैः, मदो-गर्वः, ममता-प्रतिवन्धः, आजीवनभयं भिक्षाद्या जीविकाभयं, तैर्मदममताजीवनभयैः न युक्ताः-न स्पृष्टाः । पुनः किम्भृताः न संक्लेशस्य-रौद्राध्यवसायस्य आवेश:-उत्कर्षो येषां ते न संक्लेशावेशाः। पुनर्न कदभिनिवेशाः, कत्-कुत्सितः अभिनिवेश:-कदाग्रहो येषां ते, तथा कपटप्रिया:-मायावल्लभा न पुनः किम्भूताः १ सूत्ररतयः सूत्रे रतिर्येषां ते सूत्ररतयः-सिद्धान्तरुचयः ॥३६॥ संविग्नाः सोपदेशाः श्रुतनिकषविदः क्षेत्र कालाद्यपेक्ष्या,ऽनुष्ठानाः शुद्धमार्गप्रकटनपटवः प्रास्तमिथ्याप्रवादाः । वन्द्याः सत्साधवोऽस्मिन्नियम-शम-दमौचित्य-गाम्भीर्य-धैर्य,स्थैयौदार्यचर्याविनय-नय-दया-दक्ष्य-दाक्षिण्यपुण्याः ॥ ३७ ॥ व्याख्या-संविनाः ॥ अस्मिन्-जिनशासने एवम्भूताः सत्साधवः-शोभनसाधवो वन्द्याः। किम्भूताः ? संविनाः-मोक्षाभिलाषुकाः। पुनः किम्भूताः ? सोपदेशाः, सह उपदेशेन-धर्मोपदेशेन वर्तन्ते ये ते सोपदेशाः । पुनः किम्भूताः १ श्रुतनिकपविद:-श्रुतमेव-शास्त्रमेव निकषः-कषपट्टस्तद्विदः-आगमरहस्यनिपुणाः । पुनः किम्भूताः १ क्षेत्रकालाद्यपेक्ष्यानुष्ठानाः,क्षेत्र-कालाद्यपेक्ष्य-क्षेत्रकालाद्यनुसारि, आदि शब्दाच्छरीरबलादिग्रहः, अनुष्ठानं-कर्त्तव्यता येषां ते द्रव्यक्षेत्रकालभावानपेक्ष्य क्रिया. कार इति । पुनः किम्भूताः ? शुद्धमार्गप्रकटनपटवः, शुद्धमार्गस्य प्रकटने पटव:सावधानाः । पुनः किम्भूताः ? प्रास्ता-दरीकृतः मिथ्याप्रवादो यैस्ते प्रास्तमिथ्या. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132