Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 50
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नुष्ठानमपि अशुभशुभाय-अकल्याणसंपत्तये जायते । 'कि 'मित्याक्षेपे वाक्यमेदे वा, 'पुन 'रिति हेहुप्रकारेण अहितहेतुः-संसारबन्धनहेतुः विडम्बनैव-लोकोपहासास्पदमेव न प्रसार्यते न विस्तार्यते ? अपि तु विस्तार्यत एवेत्यर्थः ॥ १९ ॥ अन्यदप्याह जिन-गृह-जैनबिम्ब-जिनपूजन-जिनयात्रादि विधिकृतं ॥ २० ॥ व्याख्या-'जिनगृह '० इह-प्रवचने एतदपि सर्व स्फुटं-प्रगटं व्यक्तमेव अनभिमतकारि भवति-अनिष्टविधायि भवेत् ॥ कस्मादित्याह-कुमत-कुगुरु-कुग्राह कुबोध-कुदेशनांशतः, अस्यार्थ:-कुत्सितं मतं कुमतं, कुत्सितो गुरुः कुगुरुः, कुग्राह:सिद्धान्तग्राह्यस्वमतिकल्पितासत्पदार्थसमर्थनानुष्ठाण विषयो मानसोऽमिनिवेशः, जिन शास्त्रस्याज्ञानादन्यथा परिच्छेदः कुबोधः, सिद्धान्ताभिहितार्थानां विन्यासेन प्ररूपणा मणिता कुदेशना, तासाम् अंशतः-लेशतः । एतत् किं ? जिनगृहं-अर्हद्भवन, जैनबिंबभागवती प्रतिमा, जिनपूजनं-भगवत्पूजा, जिनयात्रादि-भगवत्कल्याणकाष्टानि कादि, एतत् सर्व विधिकृतमपि-जिनोक्तप्रकारेण निष्पादितमपि दानतपोव्रतादि-दानं तपसी पूर्व व्याख्यातम् , व्रतादि-स्थूलप्राणातिपातविरमणादि, गुरुभक्तिः-आचार्य शुश्रूषा, श्रुतपठनादि-सिद्धान्ताध्ययनं । एतत् सर्वमपि उक्तहेतोः अनिष्ट विधायि भवेत् आदृतमपि-सबहुमानमपि । किमिव ? वरभोजनमिव यथावसरं हृद्यं भोजनं विषलवनिक्षेपत:-गरलकणनिक्षेपात् अनभिमतकारि भवति-अनिष्टविधायि भवति, एतावता कुमतादि संसर्गाजिनपूजनादिकमपि शुभदायि न भवतीत्यर्थः ॥ २० ॥ सकपटयति वर्णयतुमाह आक्रष्टुं मुग्ध-मीमान् बडिशपिशितवद् बिम्बमादय जैनं ॥ २१ ॥ व्याख्या-'हा' इति कष्टे, अयं जनो-लोकः शठैः-धूर्यतिभिः वश्यतेविप्रलभ्यते । किं विशिष्टः १ श्रद्धालु:-विवेकविकलः धर्मेच्छावान् , क इव ? शाकिन्यादिवशीकृत इव यथा शाकिन्यादिवशीकृतः केनचिद् वञ्चयते ।। कैः १ यात्रामात्रा. धुपायैः, यात्रा-जिनयात्रा, स्नात्रं-जिनस्नानम् , इत्यादयः उपाया:-प्रकारास्तैः, न केवलं यात्राद्युपायैः, नमसितक-निशाजागरादिच्छलैश्च, नमसितकं-उपयाचितकं " भवतामिदानीमीदृश उपद्रवः समुपस्थितस्तस्माद् भवद्भिस्तनिवृत्तये जिनगोत्रशासनसुराणां For Private And Personal Use Only

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132