Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani
View full book text
________________
सम्मतितत्त्वसोपाने
[ एकोनत्रिंशम् । परेति. वर्तमानपर्यायव्यतिरिक्तभूतभविष्यत्पर्यायैः विजातीयज्ञानग्राझैः नियमेन सदा नास्ति तव्यम् , तैरपि तदा तस्य सद्भावेऽवस्थासंकीर्णताप्रसः, सामान्यधर्मः सद्रव्यपु. थिवीत्वादिभिर्विशेषात्मकैश्च शब्दप्रतिपाद्यैरस्ति, सामान्यविशेषात्मकस्य शब्दवाच्यत्वात् ,
सामान्यमात्रस्य तद्वाच्यत्वे शब्दादप्रवृत्तिप्रसक्तरर्थक्रियासमर्थस्य तेनानुकत्वात् , विशेष5 मन्तरेण सामान्यासम्भवात् सामान्यप्रतिपादनद्वारेण लक्षणया विशेषप्रतिपादनमपि शब्दान्न
सम्भवति, क्रमप्रतिपत्तरसंवेदनात् , विशेषाणान्त्वानन्त्यात् संकेतासम्भवतो न शब्दवा. च्यत्वम् , परस्परव्यावृत्तसामान्य विशेषयोरप्यवाच्यत्वम् , उभयदोषप्रसङ्गात् । तत उभयात्मकं बस्तु गुणप्रधानभावेन शब्देनाभिधीयतेऽतः सदृशैव्यञ्जनतोऽस्तीत्युपपन्नम् , ऋजुसूत्रा
भिमतार्थपर्यायेण तन्नैवास्ति, अन्योऽन्यव्यावृत्तवस्तुस्वलक्षणग्राहकत्वात्तस्य ॥ २ ॥ 10 ननु प्रत्युत्पन्नपर्यायेण भावस्यास्तित्वनियमे एकान्तवादापत्तिरित्याशङ्कयाह
पच्चुप्पण्णम्मि वि पजयम्मि भयणागई पडइ दव्वं । जं एगगुणाईया अणंतकप्पा गमविसेसा ॥ ३ ॥ प्रत्युत्पन्नेऽपि पर्याये भजनागतिं पतति द्रव्यम् ।
यदेकगुणादयोऽनन्तकल्पा गमविशेषाः ॥ छाया ॥ 15 प्रत्युत्पन्नेऽपीति, वर्तमानेऽपि परिणामे स्वपररूपतया सदसदात्मरूपतां अधोमध्यो
भंदिरूपेण च भेदाभेदात्मकतां द्रव्यं भजनागतिमासादयति, यत एकगुणकृष्णत्वादयोऽनन्तप्रकारास्तत्र गमविशेषाः, तेषां च मध्ये केनचिद्गुणविशेषेण युक्तं तत् , तथाहि कृष्णं द्रव्यं तद्र्व्यान्तरेण तुल्यमधिकमूनं वा भवेत् प्रकारान्तराभावान , प्रथमपक्षे सर्वथा तुल्य
त्वे तदेकत्वापत्तिः उत्तरपक्षयोः संख्येयादिभागगुणवृद्धिहानिभ्यां षट्स्थानकप्रतिपत्तिरवश्य20 म्भाविनी । ननु पुद्गलद्रव्यस्यापरपुद्गलद्रव्यापेक्षयाऽनेकान्तरूपता भवतु, प्रत्युत्पन्ने वात्म
द्रव्यपर्याये कथमनेकान्तरूपता, न, आत्मपर्यायस्यापि ज्ञानादेस्तत्तद्राह्यार्थापेक्षयाऽनेकान्तरूपत्वे पुद्गलवदविरोधात् , द्रव्यकषाययोगोपयोगज्ञानदर्शनचारित्रवीर्यप्रभेदात्मकत्वादात्मनोऽनेकान्तरूपताया आगमे प्रतिपादितत्वाच्च ।। ३ ।। इतश्चानेकान्तात्मकताऽऽत्मन इत्याह
कोवं उपायंतो पुरिसो जीवस्स कारओ होइ। । तत्तो विभएयव्वो परम्मि सयमेव भइयवो ।। ४ ।। कोपमुपनयन् पुरुषो जीवस्य कारको भवति । ततो विभजनीयः परस्मिन् स्वयमेव भजनीयः ॥ छाया ॥
25
"Aho Shrutgyanam"

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420