Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani
View full book text
________________
सोपानम्
हेत्वाभालविमर्शनम् । लिगमभ्युपगमविषयस्तदा तत्तथाभूतमेव वस्तु प्रसाधयतीति कथं न विपर्ययसिद्धिः, न च साध्यसाधनयोः परस्परतो धर्मिणश्चैकान्तभेदे पक्षधर्मत्वादियोगो लिङ्गस्योपपत्तिमान् , सम्बन्धासिद्धः, हेतोश्च पक्षधर्मवादित्रैरूप्याभ्युपगमे कथं न परवादाश्रयणम् , एकस्य हेतो. रनेकधर्मात्मकस्याभ्युपगमात् । न च यदेव पक्षधर्मस्य सपक्ष एव सत्त्वं तदेव विपक्षात् सर्वतो व्यावृत्तत्वमिति वाच्यम् , अन्वयव्यतिरेकयोर्भावाभावरूपयोः सर्वथा तादात्म्यायो• 5 गात् , तत्त्वे वा केवलान्वयी केवलव्यतिरेकी वा सर्वो हेतुः स्यात् , न त्रिरूपवान् , ब्यतिरेकस्य चाभावरूपत्वेन हेतोस्तद्रूपत्वेऽभावरूपो हेतुः स्यात् , न चाभावस्य तुच्छरूपत्वात् स्वसाध्येन धर्मिणा वा सम्बन्ध उपपत्तिमान , न च विपक्षे सर्वत्रासत्त्वमेव हेतोः स्वकीयं रूपं व्यतिरेको न तुच्छाभावमात्रमिति वक्तव्यम् , यदि हि सपक्ष एव सत्त्वं विपक्षाच्यावृत्तत्वं न ततो भिन्नमस्ति तदा तस्य तदेव सावधारणं नोपपत्तिमत् , वस्तुभूता- 10 न्याभावमन्तरेण प्रतिनियतस्य तस्य तत्रासम्भवात् । अथ ततस्तदन्यद्धर्मान्तरं तर्हि एकरूपस्यानेकधर्मात्मकस्य हेतोस्तथाभूतस्य साध्याविनाभूतत्वेन निश्चितस्यानेकान्तात्मकव. स्तुप्रतिपादनात् कथं न परोपन्यस्त हेतूनां सर्वेषां विरुद्धता, एकान्तविरुद्ध नानेकान्तेन व्याप्तत्वात् । किञ्च परैः सामान्यरूपो वा विशेषरूपो वा हेतुरुपादीयते, आये किं स व्यक्तिभ्यो भिन्नोऽभिन्नो वा इदं सामान्यमयं विशेषोऽयश्च तद्वानिति वस्तुत्रयोपलम्भाभावान भेदाभ्युप- 13 पगमो युक्तः, न च समवायवशात् परस्परं तेषामनुपलक्षणमिति वक्तव्यम् , भेदग्रहमन्तरेण इहेदमवस्थितमिति समवायबुद्ध्यत्पत्त्यसम्भवात् । किश्च नागृहीत विशेषणा विशेष्ये बुद्धिरिति काणादानां सिद्धान्तः, न च संस्थानभेदावसायमन्तरेण सामान्यनिश्चयस्योपपत्तिः, दूराद्धि पदार्थस्वरूपमुपलभमानो नागृहीतसंस्थानभेदोऽश्वत्वादिसामान्यमुपलब्धुं शक्नोति, न च. संस्थानभेदावगमस्त दाधारोपलम्भमन्तरेण संभवतीति कथं नान्योऽन्याश्नयः, पदा- 20 थग्रहणे सति संस्थानभेदावगमः, तत्र च सामान्यावबोधः तस्मिश्च सति पदार्थस्वरूपावगतिरिति । किश्शाश्वत्वादिसामान्यस्य स्वाश्रयसर्वगतत्वे कोदिव्यक्तिशून्यदेशे उपजायमानव्यक्तरश्वत्वादिसामान्ययोगो न भवेत् , व्यक्तिशून्यदेशे सामान्यस्यानवस्थानात् , व्यक्त्यन्तरादनागमनाच ततः सर्वसर्वगतं तदभ्युपगन्तव्यमिति कर्कादिभिरिव शाबलेयादिभिरपि तदभिव्यज्येत, कर्कादिव्यक्तीनामेव तदभिव्यक्तिसामर्थ्य यया प्रत्यासत्या ता एव तत्स्वा- 25 स्मन्यवस्थापयन्ति तयैव ता एवैकाकारपरामर्शप्रत्ययमुपजनयिष्यन्तीति किमपरतद्भिन्नसामान्यप्रकल्पनया । न च स्वाश्रयेन्द्रियसंयोगात् प्राक् स्वज्ञानजननेऽसमर्थ सामान्यं तदा परैरनाधेयातिशयं तमपेक्ष्य स्वावभासि झानं जनयति, प्राक्तनासामर्थ्यस्वभावापरित्यागे
"Aho Shrutgyanam"

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420