Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani
View full book text
________________
सोपानम् ।
कणादोक्तशेयनिरसनम् । ऽपि नीलादेर्यदि न परमाणवः प्रतिभान्ति तदा नीलादिज्ञानं बहिरर्थवादिना नैवाविषयमिष्टव्यम् , अन्यथा विज्ञानमात्रताप्रसक्तेः सविषयश्चेत् स्थूलतयाऽवभासनो नीलादिविषयः एको वा स्यादनेको वा, एकोऽपि भवन्नवयवैरारब्धो वा भवेदनारब्धो वा, न तावदुभयात्माप्ययं नीलादिरेको युक्तः, स्थूलस्यैकस्वभावत्वविरोधात् । यदि हि स्थूलमेकं स्यात्तदैकदेशपिधाने स्यात्सर्वस्य पिधानम् , एकदेशरागे च सर्वस्य रागः प्रसज्येत, पिहितापिहितयोरक्तारक्तयोश्च 5 भवन्मतेनाभेदात् , न चैकस्य परस्परविरुद्धधर्माध्यासो युक्तः, अतिप्रसङ्गात् , अन्यथा विश्वमेकं द्रव्यं स्यात् , ततश्च सहोत्पादादिप्रसङ्गः, न चैकदेशपिधाने सर्व पिहितमीक्ष्यते इति प्रत्यक्षविरोधः, तथाऽनुमानविरोधोऽपि, यद्धि परस्परविरुद्धधर्माध्यासितं न तदेक, यथा गोमहिषम् , उपलभ्यमानानुपलभ्यमानरूपं पिहितादिरूपेण च विरुद्धधर्माध्यासितं स्थूलमिति व्यापकविरुद्धोपलब्धिः, सर्वस्यैकत्वप्रसङ्गो विपर्यये बाधकं प्रमाणम् । न भेदा- 10 भावासर्वशब्दप्रयोगो नोपपद्यते, सर्वशब्दो ह्यनेकार्थविषयः, न चावयवी नानात्मा तत्र कथं सर्वशब्दप्रयोगो येनैकदेशावरणे सर्वावरणप्रसक्तिरुच्येतेति वाच्यम् , लोकप्रसिद्धानां वस्त्रादिभावानामेव भवताऽवयविकल्पनात् , लोके च तत्र सर्व वस्त्रं रक्तमित्येवं सर्वशब्दप्रयोगात् । यदर्थविवक्षायां रक्तादिशब्दप्रयोगो लोके तस्यामेवास्माभिरपि तत्प्रतीतिमनुसृत्य भवतां विरोधप्रतिपादनाय सर्वादिशब्दप्रयोगः क्रियत इति कथमस्यानुप- 15 पत्तिः । किश्च स्थूलस्य कत्वमभ्युपगच्छतो भवत एवायं दोषो नास्माकम् , तदनभ्युमगमात् । न च पटकारणेषु तन्तुषु उपचारतः पटाभिधानप्रवृत्तेः सर्वादिशब्दप्रयोगानुपपत्तिर्दोषः परस्यापि न भविष्यतीति वक्तव्यम् , एवं सति सर्वदैव बहुवचनप्रयोगापत्तेः, न हि भवदभ्युपगमेन बहुष्वेकवचनमुपपत्तिमत् । न चावयविगतां संख्यामादाय पटादिशब्दस्तदवयवेषु तन्त्वादिषु अपरित्यक्तात्माभिधेयगतलिङ्गादिर्वर्तत इति वाच्यम् , अस्य व्यपदेशस्य 20 गौणत्वे स्खलद्रूपतयाऽगौणाद्भेदप्रसक्तेः, न चासावस्ति तथाहि रक्तं सर्व वस्त्रमित्यत्र नैवं बुद्धिर्न रक्तं वस्त्रं किन्तु तत्कारणभूतास्तन्तव इति । किञ्च भेदेनोपलब्धयोर्गो वाहीकयोमुख्योपचरितविषयता सम्भवति, न चावयवावयविनोः कदाचिद्भेदेनोपलब्धिरिति नात्रोपचरितशब्दप्रयोगो युक्तः । वस्त्रस्य रागः कुंकुमादिद्रव्यसंयोग उच्यते, स चाव्याप्यवृत्तिः, तदेकत्र रक्ते न सर्वस्य रागः, न च शरीरादेरेकदेशावरणे सर्वस्यावरणं युक्तमिति 25 चेन्न, पटादिनिरंजकद्रव्यस्य कुंकुमादिनाऽव्याप्तस्वरूपावस्थानाङ्गीकारे व्याप्ताव्याप्तयोर्विरोधे.
१ अत्र प्रतिषेध्यमेकत्वं तस्यापको विरुद्धधर्माध्यासाभावः तद्विरुद्धो विरुद्धधर्माध्यासस्तस्य स्थूले उपलन्धिरित्यर्थः ।
"Aho Shrutgyanam"

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420