Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani
View full book text
________________
सम्मतितस्वसोपाने
[प्रयविंशम् मिति व्यपदेशः, अथ ज्ञानलक्षणकार्यसद्भावाद्धेतोः सत्त्वव्यवस्थितिरिति चेज्ञानस्यापि कथं ज्ञेयसत्ताव्यवस्थापकत्वम् , ज्ञेयकार्यत्वादिति चेन्न यतः किं तेनैव ज्ञानेन ज्ञेयकार्यता स्वात्मनः प्रतीयते उत ज्ञानान्तरेण, नाद्यः, तस्य प्रागसत्त्वाभ्युपगमादप्रवृत्तेः, समानकालत्वेऽपि ज्ञानस्य ज्ञेयकार्यत्वाभ्युपगमेऽविशेषतो वैपरीत्यप्रसङ्गः सव्येतरगोविषाणयोः समानकालयोरपि 5 कार्यकारणभावप्रसङ्गश्च । न द्वितीयः तस्यापि स्वप्रमेयकार्यावगतौ प्रागवृत्तितयाऽसामर्थ्यान् , तस्मान्न ज्ञानलक्षणमपि कार्य क्षणिकैकान्तवादे हेतोः सत्ता व्यवस्थापयितुं समर्थम् , अध्यक्षं तु न पौर्वापर्ये प्रवर्तते, उक्तन्यायात् , नानुमानमपि, तस्य तत्पूर्वकत्वात् तन्नासत्कार्यवादः प्रमाणसङ्गतः ॥ सत्कार्यवादस्तु प्रागेव निरस्तः, तथापि किश्चिदुच्यते, तत्र नित्यस्य कार्य
कारित्वं तस्य व्यतिरेकाप्रसिद्ध्या कार्यकरणसामर्थ्यांप्रसिद्धरयुक्तम् , सर्वदेशकालव्यापिनो 10 नित्यस्य हि कचिदपि कार्यव्यापारविरहिणो न सामर्थ्यमवगन्तुं शक्यते । न च सर्वदेशाव्यापि
नस्तस्य कार्यकारणसामर्थ्यम्, तथाप्रतीतिबलात्सर्वदेशाव्याप्तेरवगमे सर्वकालाव्याप्तेरपि तत एवाभ्युपगमप्रसङ्गात् । अभ्युपगम्यत एवेति चेन्न, कतिपयदेशकालव्याप्तेरप्यप्रतिपत्तेः, तथा च निरंशैकक्षणरूपता भावानां समायाता । न च तदेकान्तपक्षेऽपि कार्यजनकता, प्राङ्नि
रस्तत्वात् , न चैकान्तनित्यव्यापकत्वपक्षे प्रमाणप्रवृत्तिरित्यसकृत् प्रतिपादितम् । न चासति कार्ये 15 निर्विषयत्वात् कारणव्यापारासम्भवात्सत्येव तत्र तेषां व्यापारः, हेतूनां जडत्वेन दृष्ट्वा श्रुत्वा
ज्ञात्वा वा कार्ये व्यापाराभावात् । न चादृश्यमानाजडेश्वरादिहेतुकमकृष्टोत्पत्तिकं भूरुहादि सम्भवति, तस्य निषिद्धत्वात्। न चासतः कार्यस्य विज्ञानं न ग्राहकम् , असत्यप्यक्षादिबुद्धेः प्रवृत्तः, अन्यथा कथं कार्यार्थप्रतिपादिका चोदना भवेत् । किञ्च यदि सत्येव
कार्ये कारणव्यापारस्तदोत्पन्नेऽपि घटादिकार्थे कारणव्यापारादनवरतं तदुत्पत्तिप्रसक्तिः, 20 तत्सत्त्वाविशेषात् । अभिव्यक्तिमात्रेण व्यापारविश्रामोऽपि न युक्तः, असत्यामभिव्यक्ती
कार्ये इव कारणव्यापारस्य स्वीकारायोगात् , स्वसमयविरोधादिति ॥ अथ विद्यमानात् कारणात् कार्यमिति सत्कार्यवादः, असतो हेतुत्वायोगात् , अन्यथा शशशृङ्गादितोऽपि पदार्थोंत्पत्तिप्रसङ्गः, कार्यकालेऽत्यन्ताभावप्रागभावयोरसत्त्वेनाविशेषात् , मैवम् , प्राक्तनरूपापरित्यागे सतोऽपि कारणस्य प्राक्तनावस्थावत् कार्य प्रतिहेतुत्वासम्भवात् , व्यापारसम्बन्धाद्धेतुतेति चेन्न, तद्व्यापार प्रत्यप्यपरव्यापारवत्पदार्थस्य हेतुत्वे तत्रापि व्यापारस्यान्यतथाविधपदाथेहेतुकत्वादनवस्थापातात् , तथा चानन्तव्यापारपरम्पराया न पर्यवसानं यावत् कस्यचिदन. वस्थानादसतः कारणात् कार्योत्पत्तिः स्यात् , न च कारणस्वरूपमेव व्यापारस्तत्काल एवं च कार्य नातोऽनवस्थेति वाच्यम् , कारण समानकाले कार्योत्पत्तिप्रसङ्गेन सव्येतरगोविषाणवत् कार्यकारणभावानुपपत्तेः । कार्यकाले कारणस्याभावे चिरविनष्टादिव तत्कालविनाशि.
"Aho Shrutgyanam"

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420