Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji
View full book text
________________
कौस्तुभरत्नम् ]
८
सरसामोदव्याख्यासहितम् ।
श्रौती समासगा धर्मलुप्ता तल्लोप ऐच्छिके । हेरम्बारुणबिम्बाभेव श्रीः क्व त्वां विनेक्ष्यते ॥ ४३ ॥ आर्थी समासगा धर्मलुप्ता चेदार्थिकोऽत्र सः । भारति त्वदपाङ्गोऽयं क्षीरोदोर्भिसमोद्यमे ॥ ४४ ॥
३७७
एवं वाक्यगतां धर्मलुप्तां श्रौतीमार्थी च समुदाहृत्याथ समासगतां तां समुदाहरन्प्रथमं समासगां धर्मलुप्तां श्रौती लक्षयति — श्रौतीति । तत्र श्रौतीपदेनोपमावाच - कस्येवशब्दस्य श्रवणसत्वमेव विवक्षितम् । तस्याः समासगत्वं तु 'इवेन समासो विभ क्त्यलोपश्च' इति शास्त्रसिद्धमेव । ऐच्छिके कवीच्छा मात्रसिद्धे । तल्लोपे धर्मलोपे सतीत्यर्थः । एवंच कवीच्छयैव साधारणधर्मानुपादाने सति सामासिकेवशब्दश्रवणजन्योपस्थितिविषयत्वं श्रौतसमासगतधर्मलुप्तोपमात्वमिति तल्लक्षणं फलति । तामुदाहरति — हेरम्बेति । अरुणेति । 'अरुणः सविता रविः' इत्यमरादरुणपदध्वनितौदयिक सूर्यबिम्बप्रभासदृशीत्यर्थः । श्रीः शोभा । हे हेरम्ब, त्वां विना क्व ईक्ष्यत इत्यन्वयः । अत्र निरतिशयारक्तवर्णत्वे सति सद्यः सकलतमः शामकत्वरूपसाधारणधर्मस्य कविना स्वेच्छयैवानुपादानात्सामा सिकेवशब्दश्रवणाच लक्षणसंगतिः । यथावा मदीये नीतिशतपत्रे - 'हितेच्छुना तु कर्तव्यः सतामेव समागमः । सरसानां सुमनसां षट्रंपदेनेव सर्वदा' इति । नचात्र हितेच्छुत्वमेव साधारणधर्मः सुखसामान्यस्य हितपदव्यवहार्यस्य षसंपदा उपमानीभूतें भ्रमरे तथात्राध्याहार्य उपमेयीभूते पुंसि चेच्छायाः सत्वादिति वाच्यम् । पुंसि हित पदार्थधर्मादिचतुर्विधपुरुषार्थविषयकेच्छाया एव विवक्षितत्वेन षट्पदे तु मकरन्दाद्यास्वादनावग्रहणमात्रजन्यक्षणिक सुखस्यैव हितपदेन विवक्षितस्येच्छायाः सत्वेन वैषम्यात् । अन्यथा पुरुषे भ्रमरवत्क्षणभङ्गुर विषय सुखास्वादनैकेच त्वविवक्षायां विधीयमानसार्वदिक निरतिशयसप्रेमसदे कसमागमस्य वैयर्थ्यात्क्षुदसुखस्यासत्समागमादिनापि सुलभत्वाच्चेति दिक् ॥४३॥ अथावसर प्राप्तां समासगतामार्थीमपि धर्मलुप्तां लक्षयति-आर्थीति । सः साधारणधर्मसंबन्धलक्षणोपमानोपमेयभावः साधारणधर्मो वा । तथाच सदृशसमादिशब्दसमासे सति आर्थिकसाधारणधर्मसंबन्धलक्षणोपमानोपमेयत्वं आर्थिकसाधारणधर्मत्वं वा आर्थसमासगधर्मलुप्तात्वं तल्लक्षणं पर्यवसितम् । तामुदाहति - भारतीति । अयि भारति शारदे, अयं ध्यानकालिकत्वेन साक्षिप्रत्यक्षः । त्वदपाङ्गस्तव नयनकोणः । अद्य त्वत्प्रसादकाले - क्षीरेति । क्षीरोदाद्देवादिमथ्यमानक्षीरसमुद्रात्सकाशादूर्मिंराविभूर्तविल· क्षणधावल्यशालिचश्ञ्चलवीचिर्यस्यामृतस्य तेन समः शुक्लत्वशीतलत्वानुपमतर्पकत्वादिना सदृश इत्यर्थः । अस्तीत्यार्थिकम् । अत्र सामासिकोपमानाव्यवहितसम शब्दान्वयसत्वेन साधारणधर्मसंबन्धलक्षणोपमानोपमेयभावस्य साधारणधर्मस्य वा आर्थि- कस्यैव सत्वालक्षणसमन्वयः । तदुक्तं लघुशब्दमञ्जूषायाम् । काव्यप्रकाशखरसोऽप्येवमेव । तत्र ह्येवमुक्तम् । यथेववादिशब्दा यत्परास्तस्यैवोपमानता प्रतीतिरिति ।
कच्छु

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576