Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 477
________________ कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् । ४६१ विस्तारि सपादशतसाहस्यात्मकं गायत्रीच्छन्दसा शतसाहस्यात्मकमनुष्टुपूछन्दसा वा हरिवंशाख्यखिलान्तं ग्रन्थविस्तारशालि भारतं यया सा तथेत्यर्थः । ईदृशी निरुक्तविशेषणविशिष्टेति यावत् । गौः कवितारूपिणी वाणी सृष्टा निर्मितेत्यन्वयः । पक्षे येन हिमवता । भवे शिवे विषये विस्तारिभारता विस्तारि अनेकसंवत्सरकालिकत्वस्य पुराणप्रसिद्धवाद्विस्तारशालिभात्र परमसंतोषजन्यमन्दस्मितकान्तिरेव तदुपशोभितं च रतं सुरतं यस्याः सा तथा । एतादृशी गौरीदृशी गौरीसदृशी कन्या सृष्टा निर्मितेत्यर्थः । पक्षान्तरे । येन शीतकालेन भवे खाविर्भावे सति विस्तारिभारता विस्तारशालिनी भारते मनुष्याणां पुष्टयाधिक्याद्रात्रेः प्राचुर्याच क्रमाद्देहकान्तिसुरतसुखे यस्यां सा तथेति यावत् । एतादृशी गौः पृथ्वी सृष्टा निर्मितेति योजना । एवं चात्राप्रकृतयोरेव हिमवच्छब्द. वाच्ययोर्हिमाचलशीतकालयोरुक्तपदच्छेदादिना भङ्गश्लेषत्वाल्लक्षणसंगतिः । नचात्र व्यासपक्षेपि विशेषणान्वयात्कथमप्रकृतमात्राश्रितवं प्रागुक्तं संगच्छेतेति वाच्यम् । प्रायः सर्वत्र तथात्वेपि क्वचिदेवमपि संभवस्यादूषकत्वात्प्रत्युत चमत्कारातिशयस्यैवार्थपुष्टया दृष्टत्वाद्विशेष्यवाचके व्यासपदे तु तदभावाच । एतेन यत्प्राक्प्र. तिज्ञातं शतोपरि पञ्चाशीतिसंख्यश्लोकव्याख्याने, उपलक्षणमिदं स्थलविशेषे तृ. तीयाद्यर्थस्यापि प्रकटयिष्यामस्तथोदाहरणावसर इति तत्समर्थितं भवति । एवं 'उदयमयते दिङ्मालिन्यम्' इत्यादिकाव्यप्रकाशोदाहरणेऽपि अत्राभिधाया अनियन्त्राणाद्वावप्यर्कभूपाविति तदुक्तार्थद्वयवत्सद्गुरुरप्यस्मत्संमतः स भवत्येवेति दिक् । यथावा अस्मदीयाद्वैतामृतमञ्जर्याम्-'परहृदयहरणनिपुणः सरलधुरीणः श्रिताविरतसगुणः । चन्द्रापीडें प्रथयन् जयति सहस्राशयो बाणः' इति । अत्र परेषां श्रोतृणां यानि हृदयान्यन्तः करणानि तेषां यद्धरणं वशीकरणरूपमाकर्षणं तत्र निपुणः प्रवीण इत्यर्थः । तत्र हेतु:-सरलेति । प्रसादगुणशालिकाव्यकर्तृऋजुरीतिमात्रव्यवहर्तृशिरोमणिरित्यर्थः। तत्रापि किं प्रमत्तस्तत्राह-श्रितेति । सर्वदावलम्बितगुणीन्द्र इति यावत् । चन्द्रेत्यादि । कल्पितकादम्बयों चन्द्रापीडनामकं राजकुमारं वर्णयन्नित्येतत् । अतएव सहस्रति । बहुविधतात्पर्यकग्रन्थग्रथक इत्यर्थः । एतादृशः बाण एतन्नामा कविर्जयति सर्वोत्कर्षेण वर्तत इत्यन्वयः। अयं हि प्रकृतोऽर्थः । अप्रकृतस्तु श्रीरघुवीरशरो बाणासुरश्च । तत्राये यथा-परेति । रावणादिशत्रुहृदयविदलनदक्ष इत्यर्थः । तत्र हेतुः सरलेति । रुजुराज इत्येतत् । श्रितेति । श्रितमाश्रितं अविरतं नित्यं सगुणं सज्ज्यं धनुर्येन स तथेत्यर्थः । तत्रापि चन्द्रेत्यादि । 'पुमानापीडशेखरौं' इत्यमरादर्धचन्द्राकारमापीडशब्दितशेखरस्थानीयं खाग्रं प्रथयन्युद्धावसरे प्रकटयन्नित्यर्थः । अतएव सहस्रति । सहस्र अनन्तवारं आसमन्तात् शयः ‘पञ्चशाखः शयः पाणिः' इत्यमराद्रामकरस्पर्शो लक्षणया यस्य स तथेति यावत् । एतादृशः बाणः निरुक्तशरो जयतीति प्राग्वत् । अन्त्येतु परेति । परशब्देन ब्रह्मैव तत्र यद्धृ.

Loading...

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576