Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीचन्द्र
चरितम्।
00000000000000000000000000
मन्त्रानीतोदकाद्यैस्तत्र भुक्तावुभा अपि । पप्रच्छ सिद्धं स वणिक कुतो वः शक्तिरीदृशी ? ॥३३०॥ सोऽवग वेतालमन्त्रं मे कोऽपि कापालिको ह्यदात् । तत्पभावेन सर्वाऽपि लक्ष्मी येत देहिनाम् ॥३३॥ वेतालमन्त्रं तं तस्मात् स जग्राह वणिग्वरः । निश्चक्राम च ततोऽस्थात् सुखं स्वमातुलौकसि ॥३३२॥ अन्यदा कृष्णभूतेष्टानिशि प्रेतवने स च । ययौ साधयितुं मन्त्रं चक्रे जापं कृताहुतिः ॥ ३३३ ॥ विभीषिकाभिः क्षुब्धस्य तस्य मन्त्रपदं तदा । विस्मृतं कुपितस्तावद् वेतालः कालवत् क्रुधा ॥ ३३४ ॥ हत्वा दण्डेन तं दूरमक्षिपत् सोऽथ मूञ्छितः । स्वस्थीकृत्य मातुलेन द्रुतं निन्ये जयस्थलम् ॥ ३३५ ।। हस्यमानो जनस्तत्राभाग्यशेखर इत्यसौ । त्रपयाऽऽत्मानमुद्रध्य परामुत्वं गतोऽचिरात् ॥ ३३६ ॥
इति परिग्रहतोऽविरतोऽसको गुणधरो बहुलोभसमाकुलः ।
विविधमण्डलमण्डलमभ्रमन्त्र धनलेशमवाप सपापहृत् ॥ ३३७॥ गुणाकरः पुनः सोऽयं स्फुरत्तरगुणाकरः। नयार्जितश्रीः परमां प्रसिद्धि प्राप्तवान् भुवि ॥ ३३८ ॥ श्रुत्वा गुणधरस्याथ वृत्तान्तं तं तथाविधम् । विशेषादाप्तवैराग्यः प्रपाल्य तदणुव्रतम् ॥ ३३९ ।। त्रिदिवं प्रापदन्यस्तु वराको नारकादिषु । सञ्जातो दुःखलक्षाणां स्थानं गुणधरो वाणक ॥ ३४० ॥
इति पञ्चमाणुव्रते गुणाकरगुणधरकथा ।
ളരാളമായി
For Private and Personal Use Only

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155