Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand

View full book text
Previous | Next

Page 120
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरितम्। 500000000000000000000000 तस्मिन्नाने दिनमणिवद्भ्रमति यथेच्छया जगति गतभीः। तद्विरहितोऽथ कातर इवासको लक्ष्यते नित्यम् ॥३६॥ दर्शय तत्करवालं कुमारवचसेत्यदर्शयत् सा तत् । आदाय तन्निजमसि तत्स्थाने चामुचत् सोऽपि ॥ ३७ ॥ अत्रान्तरे कपाली सोऽथागान्नृपसुतः स्वरूपधरः। तमतर्जयत् तदैपोऽप्यादाय विकोशनिख्रिशम् ॥ ३८ ॥ यावदढौकत योर्बु तावन्नीतः क्षणेन संयमिनीम् । ताः सर्वाश्चाहृप्यन् वीक्ष्य मृगाक्ष्यस्तदिदमखिलम् ॥ ३९ ॥ भणितं ततश्च गिरिसुन्दरेण शंसत मृगेक्षणाः! स्व स्वम्। स्थानं तत्र च युवतीर्भवतीः संप्रापये सद्यः ॥ ४० ॥ ताश्च सुभद्रावचसा ज्ञात्वा गिरिसुन्दरं ततोऽवोचन् । लज्जामहे ह्यनार्या दर्शयितु स्वं मुखं स्वेषाम् ॥ ४१ ॥ तदिदानी त्वं शरणं मरणं वा नोऽस्तु दैवहतकानाम् । भवतोपकृतिक्रीताः न शक्नुमस्त्वां ततो मोक्तुम् ॥ ४२ ॥ इति कुरु पालनमथवा ज्वालनमनलेन हीनदीनगिराम्। करुणकरसाः सुजनाः उचितानुचिते न गणयन्ति ॥४३॥ इति विहितनिश्चयास्ता दृष्ट्वा सकृपं नपाङ्गभूर्दध्यौ । ही शुद्धानामपि मुग्धानामासीद् व्यसनमासाम् ॥ ४४ ॥ म्रियमाणा अपि तावद् द्रष्टुं शक्नोमि नो कथञ्चिदमः। तदहं भवामि नाथोऽप्यासां संप्रत्यनाथानाम् ॥ ४५ ॥ इति निश्चित्यैताभी रममाणोऽसावतिष्ठदथ मासम् । स्मृत्वाऽन्यदा स्वबन्धून् संस्थाप्य प्रणयिनीस्तत्र ॥ ४६ ॥ कृतरूपपरावर्त्तः पाण्डुपुराभ्यासमागतो दृष्ट्वा । शोकाकुलानशेषानपि पौरान् कमपि सोऽपृच्छत् ॥४७।। (युग्मम्) तच्छोकहेतुमथ सोऽप्याख्यद् गिरिसुन्दराभिधो नृपमूः। निरगात् कदापि दस्युग्रहणाय न चागतो गतो मासः॥४८॥ 00000000GOOGGGGGGGO0000GGE For Private and Personal Use Only

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155