Book Title: Praman Varttikam
Author(s): Rahul Sankrutyayan
Publisher: Kitab Mahal
View full book text
________________
५७२
प्रमाणवात्तिकस्ववृत्तिटीका (११३०६) तस्मान्न खल्वेक एव स्वभावो वर्णानां पदेषु कर्तृचित्तसंस्कारभेदेन भेदात् । 523b स परस्परसहितः' कार्यभेदस्य हेतुः।
सा चानुपूर्वी वर्णानां वर्तते रचनाकृता।
इच्छाऽविरुद्धसिद्धीनां स्थितिक्रमविरोधतः ॥३०९।। कार्यकारणप्रत्ययोत्पन्न स्वभावविशेषो वर्णानामानुपूर्वीत्युक्तम् । सा च पुरुषवितर्कविचारकृतेति अनवस्थितक्रमाः । इच्छाऽविरुद्धसिद्धिक्रमत्वात् । कर्म
च्चारितं। कार्यभेदकृदिति। बुद्धिभेदं करोति (1) .. न च "वर्णा निरर्थकास्सन्त” इति (१।२४१) पूर्वमेव प्रतिपादितं (1) तत्कथम्वर्णस्वरूपं सहितं कार्यभेदकृदित्युच्यते। ____ अत्रके मन्यन्ते (1) प्रतिपदम्वर्णानां स्वरूपम्भिन्नं पौरुषेयम्वाचकं । नापौरुषेयमिति (1) यदाह (1) सत्यम् (1) अस्ति सा किन्तु पुरुषाश्रयेति ( )। ___ तदयुक्तम् (1) वर्णानां सहितासहितानामर्थाप्रतिपादकत्वात्। तस्मादयमभिप्रायः (1) यदि परमार्थतो वर्णक्रम: स्यात् तदासावेकपदादिरूपतया कल्पितोर्थस्य प्रतिपादक: स्यात्। यतश्चैकेन विकल्पेन विषयीकृताः क्रमिणो वर्णाः प्रतिपादका अत एवैकविकल्पावभासित्वात् । क्रमिणाम्वर्णानां रूपं सहितं कार्यभेदकृदित्युच्यते इत्यदोषः। यतश्च समुत्था[पकभेदाद् भेदः]। तस्मान्न खल्वेक एव स्वभावो वर्णानां सरो रस इत्यादिपदेषु । किं कारणं (1) कर्तृचित्तसंस्कारभेदेन भेदात् । कर्तृ च तच्चित्तज्ञातस्य संस्कारभेदः . समनन्तरप्रत्ययभेदेन शक्तिभेदस्तेन वर्णानां स्वभावस्य भेदात्। स च वर्णानाम्प्रतिपदम्भिन्नः स्वभावः क्रमरूप एकविकल्पारूढत्वात्। परस्परसहितः कार्यभेदस्यार्थविषयबुद्धिभेदस्य हेतुः।
या चैवं कार्यकारणता लक्षणानुपूर्वी सा चानुपूर्वी वर्णानां प्रवृत्तेत्युत्पन्ना रचनाकृतः पुरुषात् । रचनां करोतीति रचनाकृत् तस्मात्। कस्मादित्याह। इच्छेत्यादि। पुरुषेच्छया येषां वर्णानामविरुद्धा सिद्धिस्तेषां स्थितस्य क्रमस्य विरोधतः । __ कार्येत्यादिना व्याचष्टे। कार्यकारणभूताश्च ते प्रत्ययाश्चेति विग्रहः । वर्णसमुत्थापकचित्तान्येवमुच्यन्ते। तानि हि पूर्वविज्ञानापेक्षया कार्य भूतान्युत्तरविज्ञानापेक्षया कारणभूतानि। तेभ्य उत्पन्नः स्वभावविशेष आनुपूर्वीत्युक्तं । सा चानुपूर्वी पुरुषस्य यौ वितर्कविचारौ तत्कृतेति कृत्वानस्थितक्रमा वर्णाः । किमिदमिदं वेति विमर्शाकारो विकल्पो वितर्कः। इदमेवेति निश्चयाकारो विचारः। कस्मान्न स्थितक्रमा। इच्छेत्यादि। इच्छया अविरुद्धा सिद्धिर्यस्य क्रमस्य स इच्छाऽविरुद्धसिद्धिः। इच्छाविरुद्धसिद्धिः क्रमो येषान्ते तथोक्ताः ।

Page Navigation
1 ... 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642