Book Title: Praman Varttikam
Author(s): Rahul Sankrutyayan
Publisher: Kitab Mahal

View full book text
Previous | Next

Page 588
________________ प्रमाणवात्तिकस्ववृत्तिटीका (१।३०७). तद् इमे वर्णा अन्यान्यहेतव स्वकारणानुपूर्विजन्मानः। श्रुतिकालेऽपि यदा मन्दचारिणः पूर्ववर्णज्ञानसहकारिप्रत्यया पेक्षाः स्वज्ञानं जनयन्ति, तदा पूर्वस्मरणापेक्षा एव स्मृतिमुपलीयन्ते। भिन्नकार्यकारणप्रत्यय व्यवहितयोर्वक्तुरेकत्वे प्रमाणमस्ती"ति। तदयुक्तं । यतस्तिरोहितव्यवहितावस्थायाम्वक्तुरेकत्वं कैश्चिदवधार्यत एव। .. तथा हि (1) देवदत्तो मां शब्दयति न यज्ञदत्त इति लोके प्रतीतिपूर्विकैव प्रवृत्तिर्दृश्यते। यत्र नावधारणं न तत्र प्रवृत्तिरितीष्टसिद्धिरेव। . अपि च स्फो ट वा दिनोपि तिरोहितावस्थादौ कथं स्फोटाभिव्यक्तिर्व्यञ्जकानां वर्णानामेककर्तृकत्वानवधारणात्। अवश्यं च तत्र स्फोटाभिव्यक्ति[रेष्टव्या। अन्यथार्थावगतिर्न स्या]' दिति कैश्चिदवधार्यत एव (1) यत्किञ्चिदेतत् । तदिति तस्मादिमे वर्णा अन्यान्यहेतव इति। अन्यदन्यत्समुत्थापकं चित्तं 20ra हेतुर्येषा मित्यर्थः । स्वकारणानि समुत्थापकान्येव ज्ञानानि तेषामानुपूर्वी क्रमस्तस्या जन्म येषान्ते तथोक्ताः। कारणक्रमात् क्रमभाविनो वर्णा इत्यर्थः । इयता च (1) यो यद्वर्णसमुत्थानज्ञानजाज्ज्ञातो ध्वनिः (1) इत्येतद्वयाख्यातं । [स श्रुत्या समवसीयत] ' इत्येतद् विवृण्वन्नाह। श्रुतीत्यादि। श्रुतिकालेपि श्रवणकालेपि यदा मन्दचारिण इति यदा नातिद्रुतमुच्चार्यन्त इत्यर्थः । पूर्ववर्णालम्बनं ज्ञानन्तदेव सहकारिप्रत्ययस्तमपेक्षन्ते ये वास्ते तथोक्ताः। त एवंभूताः किं कुर्वन्ति (1) स्वज्ञानं स्वविषयं श्रोत्रविज्ञानं जनयन्ति । तथा हि (1) सकारालम्बनं श्रोत्रविज्ञानं यस्मिन्नेव काले तथैवाकारोप्यकारसमुत्थापनचेतसा जनितस्तेनाकारः सकारालम्बनं च ज्ञानमेककालन्तस्मादकारः । सकारालम्बनज्ञानेन सहकारिणा स्वविषयं ज्ञानं जनयति (1) एवमन्येष्वपि वर्णेष्वयं न्यायो योज्यः। तदेति यदा स्वविषयमनुभवज्ञानं जनितवन्तस्तदा पूर्ववर्णविषयं यत् स्मरणन्तदपेक्षा एव स्मृतिमुपलीयन्ते स्मृतावारोहन्ति। येनैव क्रमेणानुभूतास्तेनैव क्रमेण स्मर्यन्त इत्यर्थः । स एषो युगपदभावलक्षणो वर्णानां स्वभाव इति सम्बन्धः । कीदृश इत्याह। भिन्नेत्यादि । पूर्वपूर्वविज्ञानजन्यत्वाद् भिन्नः कार्यभावः । उत्तरोत्तरज्ञानस्य हेतुत्वाद् भिन्नः कारणभावश्च येषां सकारादिसमुत्थापक ज्ञानानान्तानि भिन्नकार्यकारणभावानि। तान्येव प्रत्यया हेतवः । तेभ्यो निर्व 1 In the margin.

Loading...

Page Navigation
1 ... 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642