Book Title: Praman Varttikam
Author(s): Rahul Sankrutyayan
Publisher: Kitab Mahal

View full book text
Previous | Next

Page 599
________________ च. आप्त-चिन्ता ५८१ प्रभुप्रभाषस्तेषां स तदुक्तन्यायवृत्सितः ॥३१२॥ रथ्यापुरुषा अपि केचन तन्त्रज्ञा स्वयं कृतमन्त्रः किञ्चित् कर्म कुर्वन्ति । तथान्योऽपि मन्त्रस्य प्रणेताऽनतिशयश्च स्यादिति चेत् । न। तेषां प्रभाववतैवाधिष्ठानात् । तत्कृतं हि समयमनुपालयन्तः तदुपदेशेन च वर्तमानाः। तत्समयोपदेशनिरपेक्षाणां असामर्थ्यात्। तत्रापि तदाकारध्यानादेरेव प्रयोगात् । तस्मात् तदधिष्ठानमेव तत् तादृशमुन्नेयम् । अपि च । अत आह। येपीत्यादि। मन्त्रप्रतिबद्धानि शास्त्राणि तन्त्राणि तानि विदन्तीति ते तन्त्रविदः केचिदद्यत्वेपि मन्त्रानपूर्वान् कांश्चन कुर्वते। तन्न तेषां केवलानामसामर्थ्य। किन्तु यत् तन्त्रमाश्रितास्ते तस्य तन्त्रस्य प्रणेता यः पुरुषातिशयस्तस्य प्रभोः स्वामिनः स प्रभावः सामर्थ्य। कस्मात् (1) तदुक्तन्यायवृत्तितः। तस्मात् प्रभुणा यस्तेभ्यस्समयादिको न्याय उपदिष्टस्तस्यानुवर्तनात् । प्रभु'- 205a स्तुष्टस्तत्प्रणीतानपि मन्त्रानधितिष्ठतीति भावः।। ___ रथ्यापुरुषेत्यादिना पूर्वपक्षोपन्यासपूर्वकं कारिकार्थं व्याचष्टे। रथ्यापुरुषा अपीति सामान्यपुरुषा अपि केचन गारुडिकप्रभृतयो मन्त्रलक्षणतन्त्रज्ञाः किञ्चिद् विषादिशमनलक्षणं कर्म कर्वन्ति। न च ते विशिष्टाः सुरापानाद्यनुष्ठानात् । तथान्योपीति प्रभाववत्त्वेनाभिमतो मन्त्रस्य प्रणेताऽनतिशयश्च स्यात् । रथ्यापुरुषवदतिशयरहितश्च स्यात् मन्त्राणां च कर्तेति। तथा च प्रभाववान् पुरुषो न सिध्यतीति मन्यते। नेत्यादिना परिहति। न प्रभावरहितानां मन्त्रकरणं (1) ये तु रथ्यापुरुषा अपि मन्त्रान् कुर्वन्ति तेषां पुरुषाणां प्रभाववतैव तन्त्रस्य प्रणेत्राधिष्ठानात् मन्त्रकरणसामध्यं। . एतदेव दर्शयन्नाह। तत्कृतं हीत्यादि। तेन प्रभावातिशयवता पुरुषेण कृतसमयमनुपालयन्तो रक्षन्तः। तदुपदेशेन चेति प्रभावयुक्तपुरुषोपदेशेन च वर्तमाना मन्त्रक्रियासमर्थाः कुत एतत् । तदित्यादि तस्यं प्रभावतो यस्समयः। यश्चोपदेशस्तत्र निरपेक्षाणां पुंसां मन्त्ररचनायामसामर्थ्यात् । तत्र समयो यस्यातिक्रमात् पुनर्मण्डलप्रवेशादिः कर्त्तव्यो जायते। ततोन्यद्विधा नामुपदेश इत्यनयोर्भेदः। तत्रापीति रथ्यापुरुषकृतेष्वपि मन्त्रेषु तदाकारध्यानादेव। प्रभाववतः। पुंसश्चाकारध्यानादे (रे) व (1) आदिशब्दात् स्वभावचर्याध्यानस्य परिग्रहः। तेन मन्त्रस्य प्रयोगात् प्रवर्त्तनात् । यत एवन्तस्मात्तदधिष्ठानमेव प्रभाववत्पुरुषाधिष्ठानमेव तत्तादृशमुन्नेयं बोद्धव्यं । यत्ते स्वयंकृतैर्मन्त्रः कर्म कुर्वन्तीति ।

Loading...

Page Navigation
1 ... 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642