Book Title: Praman Varttikam
Author(s): Rahul Sankrutyayan
Publisher: Kitab Mahal

View full book text
Previous | Next

Page 601
________________ च. प्राप्त - चिन्ता कश्चिदतिशयवान् इति तस्य प्रतिक्षेपसाधनान्यपि प्रतिव्यूढानि । बुद्धीन्द्रियोक्तिपुंस्त्वादि साधनं यत्त वर्ण्यते । प्रमाणाभं' यथार्थास्ति न हि शेषवतो गतिः || ३१४॥ यत्तु बुद्धीन्द्रियोक्तिपुंस्त्वादित्यादि पुरुषातिशयप्रतिक्षेपसाधनं तत्तु श्रगमकमेव ' । प्रतिक्षेपसामान्यसाधनेऽयोगात् । ५८३ न ह्यतीन्द्रियेषु तद्दर्शिनः प्रतिक्षेपः सम्भवति । सतामप्येषामज्ञानात् । श्रत एव विरोधस्यासिद्धेः । श्रविरोधिना च एकत्र सम्भवाविरोधादित्युक्तम् । प्रतिव्यूढानि प्रतिक्षिप्तानि । एतेन च परोक्तस्यातिशयप्रतिक्षेपसाधनस्य न विरुद्धाव्यभिचारित्वमुद्भाव्यते (1) किन्तर्हि पुरुषातिशयप्रतिक्षेपसाधनानि वस्तुबलायातानि न सन्त्येवेत्यनेन व्याजेन कथ्यते । न हि वस्तुबलायातं पुरुषातिशयं निराकर्तृ किंचित् साधनमस्ति । ननु चेदमस्ति विवक्षितः पुरुषो नातिशयवान् बुद्धिमत्त्वात् । इन्द्रियवत्वात् । वचनात् पुंस्त्वात् । रथ्यापुरुषवदिति ( 1 ) अत आह। बुद्धीन्द्रियेत्यादि । बुद्धिश्चेन्द्रियं च उक्तिश्च पुंस्त्वं चेति द्वन्द्वः । आदिशब्दात् प्राणादिमत्त्वादि । पुरुषातिशयनिराकरणसाधनं यत्तु वर्ण्यते (1) तत्सर्वं प्रमाणाभं प्रमाणाभासमनैकान्तिकमिति यावत् । किं कारणं (1) विपक्षवृत्तेः सन्देहेन सर्वस्य शेषवत्त्वात् । न हि शेषवत इत्यनैकान्तिकत्वात् । यथार्थेत्यविपरीता गतिरनुमेयप्रतिपत्तिरस्ति । यत्वित्यादिना व्याचष्टे । यत्तु पुरुषातिशयप्रतिक्षेपसाधनन्तत्त्वगमकमेवेति सम्बन्धः। तत्पुनः साधनं । बुद्धीन्द्रिययोगादित्यादि । कस्मादगमकमित्याह । प्रतिक्षेपेत्यादि । प्रतिक्षेपश्च सामान्यं च प्रतिक्षेपसामान्ये । तयोः साधने तयोरयोगात् । तथा हि (1) बुद्धिमत्त्वादिना साधनेन नास्ति 5 पुरुषातिशय इति प्रतिक्षेपो वा साध्येत । यद्वा योसौ पुरुषातिशयः स रथ्यापुरुषः समान इतीतरपुरुषसामान्यं साध्येत । तत्र न हीत्यादिना प्रतिक्षेपसाधनस्याभावमाह । न ह्यतीन्द्रियेष्वर्थेष्वतद्दशिनोतीन्द्रियार्थादर्शिनः प्रतिक्षेपः सम्भवति । किं कारणं (1) सतामप्येषामतीन्द्रियाणामर्थानामर्वाग्दर्शनस्याज्ञानात् । तस्मान्ना 'दर्शनमात्रात्प्रतिक्षेप इति भावः । नापि विरुद्धविधानात् पुरुषातिशयस्य प्रतिक्षेपः यस्मादत एवातीन्द्रियत्वादेव पुरुषातिशयस्य बुद्धित्वादिना हेतुना । द्विविधस्यापि विरोधस्यासिद्धेः । अविरोधिना च वक्तृत्वादिना पुरुषातिशयस्यैकत्र सम्भवाविरोधादित्युक्तं प्राक् । 526a

Loading...

Page Navigation
1 ... 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642