Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 207
________________ २ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । अथ नर्दटकं छन्द:-- यदि भवतो नजौ भजजला - गुरु नर्दटकम् ॥ २२३ ॥ यदि प्रथमं नजौ नगणजगणौ भवतः, ततो भगणजगण गणलघवः, अथ च गुरुर्भवति यत्र तन्नर्दटकं छन्दः ॥ यथा 'व्रजवनितावसन्तलतिकाविलसन्मधुपं मधुमथनं प्रणम्रजनवाञ्छितकल्पतरुम् । विभुमभिनीति कोऽपि सुकृती मुदितेन हृदा रुचिरपदावलीघटितनर्दटकेन कविः ॥' उवणिका यथा ॥, ISI, SI, ISI, ISI, I, S, १७४४= ६८ ॥ यथा वा भा गवते दशमस्कन्धे – 'जय जय जयजामजितदोषगृभीतगुणाम्' इत्यादि ॥ नर्दटकं निवृत्तम् ॥ अथ कोकिलकं छन्दः - हयऋतुसागरैर्यतियुतं वद कोकिलकम् || २२४ ॥ हयाः सप्त, ऋतवः षट्, सागराश्चत्वारः, तैर्विरतियुक्तमिदमेव कोकिलकमिति वृत्तं वदेति । अत्र च विश्रामकृतो भेदः, गणास्त एवेति विवेकः ॥ यथा 'लसदरुणेक्षणं मधुरभाषणमोदकरं मधुसमागमे सरसि केलिभिरुल्लसितम् । अतिललितद्युतिं रविसुतावनकोकिलकं ननु कलयामि तं सखि सदा हृदि नन्दसुतम् ॥' उवणिका सैव, यतिकृत एव भेदः ॥ कोकिलकं निवृत्तम् ॥ अथ हारिणी छन्द: यथा--- १९१ वेदर्श्वश्वैर्मभनभयला गश्चेत्तदा हारिणी || २२५ ॥ यदि प्रथमं वेदैः, तत ऋतुभिः, तदनन्तरमवैर्विरतिः, अथ च - मभनमयला म गणभगणनगणमगणयगणलघवः, ततो गुरुर्भवति, तदा हारिणी छन्दो भवतीति ॥ 'यस्या नित्यं श्रुतिकुवलये श्रीशालिनी लोचने रागः स्वीयोऽधरकिसलये लाक्षारसारञ्जनम् |

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256