Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 212
________________ १९६ काव्यमाला । यते । कीदृशम् । हंसशब्दवत्सुशोभनम् । • यस्याश्चैत्तस्याः स्तोकस्तोकयोरभिनवोत्थि - तयोः स्तनयोर मनोहरं मुक्तादाम नृत्यति । अपि च वामदक्षिणयोः पार्श्वयोर्बाण इव धावति तीक्ष्णश्चक्षुः कटाक्षो यस्याः सेयमेवंविधा सुन्दरी कस्य सुकृतिनः पुरुषस्य गेहं मण्डयतीति तादृशीति प्रेक्षस्व तावदिति तद्रूपमुपवर्णयन्तं वयस्यं प्रति कस्यचिद्वचनमिति ॥ यथा वा [णीभूषणे ] - 'कोकिला कलकूजितं न शृणोषि संप्रति सादरं मन्यसे तिमिरापहारिसुधाकरं न सुधाकरम् । दूरमुज्झसि भूषणं विकलासि चन्दनमारुते कस्य पुण्यफलेन सुन्दरि मन्दिरं न सुखायते ॥ ' उट्टवणिका यथा - SIS, IS, I, SI, I, S, I, S, ॥, S, I, ऽ, १८x४=७२ ॥ यथा वा मार्कण्डेयभाषितचन्द्रशेखराष्टके - ' रत्नसानुशिरासनं रजताद्रिशृङ्गनिकेतनं शिञ्जिनीकृतपन्नगेश्वरमच्युतानलसायकम् । क्षिप्रदग्धपुरत्रयं त्रिदशालयै(?)रभिवन्दितं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ चर्चरी निवृत्ता ॥ अथाष्टादशाक्षरप्रस्तार एव कानिचिद्वृत्तानि ग्रन्थान्तरादाकृष्य लिख्यन्ते । तत्र प्रथमं कुसुमितलता वेल्लिताछन्द: स्याद्भूतः कुसुमितलतावेहिता स्तौ नयौ यौ ॥ २३३ ॥ यत्र भूतैः पञ्चभिः, ऋतुभिः षड्भिः, अवैः सप्तभिश्व विश्राम भवति । अथ चौ मगणतगणौ, अथ च नयौ नगणयगणौ, अनन्तरं यौ केवलौ यगणावेव भवतः । षड्डिगैरष्टादश वर्णाः पदे पतन्ति यत्र तत्कुसुमितलतावेल्लितानामकं छन्दो भवतीति ॥ यथा क्रीडत्कालिन्दी ललित लहरी वाहिभिर्दाक्षिणात्यै र्वातैः खेलद्भिः कुसुमितलता बेल्लिता मन्दमन्दम् । भृङ्गालीगीतैः किसलयकरोल्लासितैर्ला स्यलक्ष्मीं तन्वाना चेतो रभसतरलं चक्रपाणेश्चकार ॥ उणिका यथा - Sss, ssi, ii, iss, Iss, Iss, १८x४ = ७२ ॥ यथा वा'गौडं पिष्टान्नं दधि सकृशरं निर्जलं मद्यमम्लम्' इत्यादि वाग्भटचिकित्साग्रन्थे ॥ कुसुम - तलतावेल्लिता निवृत्ता ॥ अथ नन्दनछन्द: नजभजरैस्तु रेफसहितैः शिवैर्हयैर्नन्दनम् || २३४ ॥ यत्र नगणजगणभगण जगणरगणै रेफेण रगणेन सहितैरेतैः षड्भिर्गणैः अथ च शिवैरेकादशभिः, ततो हयैः सप्तभिः, विश्रामो यत्र तन्नन्दनमिति छन्दो भवतीति ॥ यथा तरणिसुतातरङ्गपवनैः सलीलमान्दोलितं मधुरिपुपादपङ्कजरनः सुपूतपृथ्वीतलम् ।

Loading...

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256