Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 225
________________ २ परिच्छेदः ] प्राकृतपिङ्गलसूत्रम् । २०९ णोक्तम् —'तालचामरध्वजं पयोधरं च कुण्डलं शरं विधाय नूपुरं च नायकं सपक्षिराजगन्धचामरं निधाय । रूपमन्त्यगं विदेहि वर्णितेन पन्नगेन्द्रपिङ्गलेन गण्डका कवीन्द्रमण्डविनोदकारिणी सुमङ्गलेन ॥' ग्रन्थान्तरे त्विदमेव चित्रवृत्तमिति नामान्तरेणोक्तम् । अत एव च्छन्दोमञ्जर्याम् — 'चित्रवृत्तमीरितं तदा रजौ रजौ रजौ गुरुर्लघुश्व' ॥ ॥ गण्डका मुदाहरति - जहा (यथा ) - ताव वुद्धि ताव सुद्धि ताव दाण ताव माण ताव गव्व जाव जाव हेत्थ तल्ल णच्च सव्व विज्जुरेह यक दव्व । एत्थ अन्त अप्पदोस देवरोस होइ णट्ठ सो इ सव्व कोइ बुद्धि कोइ सुद्धि कोइ दाण कोइ माण कोइ गव्व २५६ [तावद्वुद्धिस्तावच्छुद्धिस्तावद्दानं तावन्मानस्तावद्भर्वो यावद्यावद्धस्ततले नृत्यति सर्वेषां विद्युद्रखेवैकं द्रव्यम् । अत्रान्ते आत्मदोषो देवरोषो भवति नष्टास्त एव सर्वे का बुद्धिः का शुद्धिः किं दानं को मानः को गर्वः ||] कश्चित्स्वमित्रं प्रत्याह—तावद्वुद्धिः, तावच्छुद्धिः, तावद्दानम्, तावन्मानः, तावद्गर्वः, यावद्यावद्धस्ततले नृत्यति सर्वेषां विद्युद्रेखेवातिचञ्चलमेकं द्रव्यम् । अत्रान्ते द्रव्याभावे आत्मदोषो दैवरोषो वा कारणं भवति नष्टास्त एव सर्वे वस्तुतस्तु का बुद्धि:, का शुद्धिः, किंवा दानम्, को वा मानः को वा गर्वः ॥ यथा वा [णीभूषणे ] - 'दृष्टमस्ति वासुदेव देव विश्वमेतदेव शेषकं तु वाजिरत्नभृत्यदार सूनुगेहवित्तमादिवन्नवं तु । त्वत्पदाब्जभक्तिरस्तु चित्तसीनि वस्तुतस्तु सर्वदैव शेषकाललुप्त कालदूतभीतिनाशिनीह हन्त सैव ॥ उवणिका यथा — SIS, ISI, SIS, ISI, SIS, ISI, S, I, २०४४ = ८० ॥ यथा वा प्रन्थान्तरस्थमुदाहरणम् — 'चित्तवृत्त लीलया निसर्गरम्यदेशरूपविभ्रमेण राजमानसद्वयोविलाससंपदा कलाकुतूहलेन । यः समं व्रजाबलाजनैः सुराङ्गनानिभैः सुखं समेत्य विष्णुरुललास चित्तपद्मकोषषट्पदः स मे सदास्तुं ॥' गण्डका निवृत्ता ॥ - अथास्मिन्नेव प्रस्तारे शोभानामकं वृत्तं ग्रन्थान्तरादाकृष्य लिख्यतेरसाश्वाश्वैः शोभा नयुगगजठरा मेघविस्फूर्जिता चेत् ॥ २५७ ॥ > यत्र रसैः षड्भिः, अश्वैः सप्तभिः पुनरश्वैर्विरचितविरतिः, अथ च मेघविस्फूर्जिता चेत् यगणमगणानन्तरं नगणद्वयगुरुजठरा भवति । शेषं समानं यत्र तच्छोभानामकं वृतं भवतीति ॥ १. ' हत्थ सव्व णच्च विज्जुरेहे रङ्गे एक दव्व (हस्ते सर्व नृत्यति विद्युदेखारङ्गे) " इति रवि ० . २७

Loading...

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256