Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 202
________________ १८६ . काव्यमाला । अथ सप्तदशाक्षरप्रस्तारे पृथ्वीछन्दःपओहर मुह द्विआ तह अ हत्थ एको दिआ पुणो वि तह संठिआ तह अ गन्ध सज्जोकिआ । पलन्ति वलआजुआ विमलसद्द हारा उणो चउकलअ वीसआ पुहविणाम छन्दो मुणो ॥२१७ ॥ [पयोधरो मुखे स्थितस्ततश्च हस्त एको दत्तः पुनरपि तथा संस्थितौ तथा च गन्धः सज्जीकृतः । पतति वलययुगं विमलशब्दो हारः पुनः चतस्रः कलाश्च विंशतिः पृथिवीनाम छन्दो ज्ञेयम् ॥] भोः शिष्याः, यत्र पयोधरो जगणो मुखे स्थितः, तत एकः सगणः, पुनरपि तथैव जगणसगणावेव तयोरग्रे स्थितावित्यर्थः । तथा च गन्धो लघुः सजीकृतः, ततो गुरुद्वयम् , ततो विमलोऽतिविशदः शब्दोऽतिलघुर्भवति, ततो हारो गुरुः । पदे च चतस्रः कलाः । अथ च विंशतिः कलाः संभूय चतुर्विंशतिः । यत्र वसुभिर्ग्रहश्च जातविश्राम पृथ्वीनामकं छन्दो भवतीति मुणउ ज्ञेयमित्यर्थः । तथा च-जसद्वययगणलघुगुरुभिर. टरन्ध्रकृतयतिः पृथिवीति फलितोऽर्थः। तदुक्तं छन्दोमअर्याम्-'जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः' इति ॥ वाणीभूषणे तु प्रकारान्तरेणोक्तम्-‘पयोधरयुता स्फुरत्कनकयुग्मताटङ्किनी सुवर्णरुचिकङ्कणा ललितभावसन्नूपुरा । सुगन्धरुचिरा सच्छ्रवणरूप. वस्कुण्डला भुजंगपतिवर्णिता हरति हन्त पृथ्वी मनः ॥' कर्णपर्यायत्वाच्छ्वणस्य गुरुद्वयात्मको गणो गृह्यते ॥ पृथ्वीमुदाहरति-जहा (यथा)झणज्झणिअभूसणं रणरणन्तकाचीगुणं सहासमुहपङ्कअं अगुरुधूमधूपुज्जलम् । जलन्तमणिदीविरं मअणकेलिलीलासरं णिसासुहमणोहरं जुवइमन्दिरं रेहइ ॥ २१८ ।। [झणिज्झणितभूषणं रणरणत्काञ्चीगुणं सहासमुखपङ्कजमगुरुधूमधूपोज्ज्वलम् । ज्वलन्मणिदीपिकं मदनकेलिलीलासरो निशासुखमनोहरं युवतिमन्दिरं राजते ॥] १. 'कोल' रवि०.

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256