Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 170
________________ मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नबोपदेशः । ( धानम् ), अथ कथमेतस्य निवृत्तिरिति चेत् ? शृणु - कश्चित् खलु पुरुषधुरन्धरो नित्याध्ययनविधिनाऽधीतवेदान्तः साङ्गाध्ययनबलाद् वेदान्तवाक्यानामापाततोऽर्थमधिगच्छति, काम्यत्वे सति कथमध्ययनविधेर्नित्यत्वमिति चेत् ? काम्यत्वेऽपि धर्मा ( अर्था )वबोधफलकत्वेन फलतो नित्यत्वस्याबाधात्, एतच्च मीमांसकमतेनोच्यते, स्वमते स्ववाप्तिफलकत्वेन फलतो नित्यत्वमध्ययनस्य, अहरहः कर्तव्यब्रह्मयज्ञाद्यर्थतयाऽवाप्तेरावश्यकत्वात् । अध्ययनविधेर्हि फलाकाङ्क्षायां निरतिशय सुखात्मकोऽपि स्वर्गे यथा न फलम्, अदृष्टत्वात् एवं दृष्टोऽप्यर्थावबोधो न फलम्, अनन्तरादृष्टत्वादश्रुतत्वाच अवाप्तिवनन्तर दृष्टश्रुता च फलत्वेन संबध्येत्, यथाहि फलाकाङ्क्षायां दृष्टे सति नादृष्टं कल्प्यम् एवमनन्तरदृष्टे सति न व्यवहितदृष्टुं कल्प्यम् श्रुते च सति नाश्रुतं कल्प्यम्, अर्थावबोधवादिनाप्यवाप्तेरङ्गीकारात्, ३२० एवं पञ्चीकरणमभिधाय तैर्भूतैरुपायं कार्यवर्ग दर्शयति तैरण्ड इति तैः पञ्चीकृतैर्भूतैरुपादानकारणभूतैः, अण्डोब्रह्माण्ड उत्पद्यते, तत्र ब्रह्माण्डान्तर्भुवनान्युपरिभागे वर्तमाना भूम्यादयः सप्त लोकाः, भूमेरधः स्थितान्यतलादीनि सप्त पातालान्तानि, तेषु च भुवनेषु तैस्तैः प्राणिभिर्भोक्तुं योग्यान्यन्नादीनि तत्तल्लोकोचितशरीराणि च तैरेव पञ्चीकृतैर्भूतैरीश्वराज्ञया जायन्ते, एवं स्थूलशरीरमभिधाय तेषु स्थूलशरीरेषु अभिमानवतो हिरण्यगर्भस्य समष्टिरूपस्य वैश्वानरसंज्ञकत्वम् एकैकस्थूलशरीराभिमानवतां व्यष्टिरूपार्णा तैजसानां विश्वसंज्ञकत्वं च भवतीत्याह - हिरण्यगर्भ इति - अस्मिन् स्थूलशरीरे वर्तमानो हिरण्यगर्भो वैश्वानरो भवेदिति ॥ 64 अत एव अन्योऽन्याध्यासाचिदचिद्रन्थिरूपस्याभ्यासस्य संसारस्वरूपत्वादेव | सिद्धाभिधानमित्यत्र ब्रह्माण्डेत्यादिषष्ट्यन्तस्यान्वयः अत एवेत्यस्य च हेतुतयाऽन्वयः सिद्धाभिधानमित्यस्य सिद्धवदभिधानमित्यर्थः, यत एव संसारो निरुक्ताभ्यासस्वरूपस्तत एव तदन्तर्वर्तिनां ब्रह्माण्डादीनामुत्पत्तेरभिधानं सिद्धवदेव, न तत्र कोशाद्यभिहिते कथमित्थमित्यायाकाङ्क्षोत्थानम्, अन्योऽन्याध्यासात्मके संसारे सुव्यवस्थिते तदन्तर्गतस्याशेषस्याप्यन्योऽन्याध्यासरूपस्य सुव्यवस्थितत्वमेवेत्याशयः इत्थमपञ्चीकृत पश्चीकृत भूतादिमयचिदचिद्रन्थिस्वरूपान्योऽन्याध्यासलक्षणसंसारस्य क्रमिकोत्पत्तिमभिधाय निवृत्तिमभिधातुकामस्तत्र परपृच्छामुपन्यस्यति - अथेति - अस्य संसारोत्पत्तिनिरूपणानन्तरमित्यर्थः । एतस्य अनन्तराभिहितस्वरूपस्य संसारस्य । कथमित्याक्षेपे, प्रवाहतोऽनादिभूतस्य संसारस्य सहसैव निवृत्तिर्न सम्भावनापथमुपयातीति प्रष्टुरभि - सन्धिः । उत्तरयति - पिवति । मुक्तिकारणब्रह्मतत्त्वसाक्षात्कारेच्छया मुमुक्षुरध्ययनमनुतिष्ठतीत्यध्ययनविधेः काम्यत्वे सति कथं नित्यत्वं नित्यत्व- काम्यस्वयोर्विरोधादिति नित्याध्ययनविधिनेत्युक्तिर्न सङ्गतिमङ्गतीति शङ्कते - काम्यत्वे सतीति । स्वाध्यायोsध्येतव्यः " [ ] इत्यध्ययनविधिरध्ययनस्यैव कर्तव्यश्वमनुशास्तीति शब्दात्मकवेदस्वरूपाभ्यसनलक्षणाध्ययनेच्छया स्वाध्यायाध्ययनकरणे तस्य काम्यत्वेऽपि ततोऽर्थावबोधोऽवश्यम्भावीति तदात्मकफलापेक्षया स्वाध्यायाध्ययनविधेर्नित्यस्यापि सम्भवादपेक्षाभेदेन काम्यत्व नित्यस्वयोर्विरोधाभावादित्याशयेनोत्तरयति - काम्यत्वेऽपीति । अर्थावबोधफलकत्वेन फलतो नित्यत्वमध्ययनविधेः पूर्वमीमांसामते नोकमित्याह- एतच्चेति । मीमांसकमतेन पूर्वमीमांसाभ्युपगन्तृमतेन । स्वमते उत्तरमीमांसाभ्युपगन्तृवेदान्तिमते तु पुनः अवाप्तिफलकत्वेनेति- अवाप्तिस्वरूपमधे व्यक्ती - भविष्यति । अध्ययनविधेरवाप्तिफलकत्वं तदा स्याद् यद्यध्यनादवाप्तिः स्यात् तस्यास्त्वनर्थिकाया अनावश्यकत्वमेवेत्यत आह- अहरहः कर्तव्येति - अहरहः कर्तव्यं यद् ब्रह्मयज्ञादि तदर्थतया तत्प्रयोजनकत्वेन अवाप्तेर्वक्ष्यमाणस्वरूपायाः आवश्यकत्वात्- अवश्यमभ्युपगन्तव्यत्वादित्यर्थः । अवाप्तेरध्ययनविधिफलत्वं व्यवस्थापयति- अध्ययनविधेर्हीति । फलाकाङ्क्षायां किमर्थमध्ययनं कर्तव्यमित्याकाङ्क्षायाम् । स्वर्गस्याध्ययनफलत्वाभावे हेतुमाह- अदृष्टत्वादिति । अर्थावबोधस्याध्ययनविधिफलत्वाभावे हेतुद्वयमुपदर्शयति- अनन्तरादृष्टत्वादश्रुतत्वाच्चेति । अनन्तरदृष्टत्वाच्छ्रुतत्वाच्चावाप्तेरध्ययनविधिफलत्वं निगमयति- अवाप्तिस्त्विति । निरतिशय सुखात्मकत्वेन फलान्तरतो वैशिष्ट्यमनुभवतोऽपि स्वर्गस्य कथमदृष्टत्वान्न फलत्वं, कथं वा दृष्टस्याप्यर्थावबोधस्यानन्तरादृष्टत्वादश्रुतत्वाच्च न फलत्वमित्याकाङ्क्षानिवृत्तये त्वाह- यथा द्वीति । ariharःस्वीकरणीयेत्याह- अर्थावबोधवादिनाऽपीति- अध्ययनविधेरर्थावबोधः फलमित्यभ्युपगन्त्रा मीमांसके

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274