Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 196
________________ ३४६ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । न- सकृद्वेदान्तार्थश्रवणवतां तदभावप्रसङ्गात् । किञ्च, भ्रमे अन्नानमात्रजन्यत्वं युक्तम् , न त्वधिष्ठानझाने, [ न हि रजतभ्रमवत् शुक्तिज्ञाने शुक्त्यज्ञानजन्यत्वम् । तदवश्यं दृष्टि सृष्टिपक्षे लोके अज्ञानाति. रिक्तकारणाभावेऽपि वेदे यागादौ स्वर्गादिसाधनतया सम्मतैव । ततश्च यागादेः स्वर्गादिसाधनस्वं प्रतीत्य यागमनुतिष्ठतां उत्पन्नस्य स्वर्गसूक्ष्मरूपस्य [ यागसूक्ष्मरूपस्य ] वा अपूर्वस्य साक्षिसिद्धस्य स्वर्गजनकत्वम् , अपूर्वस्य साक्षिसिद्धत्वं नानुभूयते इति चेत् ? न- अज्ञातसत्त्वानङ्गीकारेणाद्वानकारण. ताया इव अपूर्वस्य साक्षिसिद्धताभ्युपगमस्यावश्यकत्वात् , ततश्च यागादेः स्वर्गादिजन्मवत् श्रवण-मननादिसहजकृतवेदान्तवाक्यात् तत्त्वज्ञानोत्पत्तिरविरुद्धा । दृष्टिसृष्टिवादे ईश्वरो नास्तीति " तत् त्वमसि" [ ] इत्यत्र कथं तदभेदप्रतीतिरिति चेत् ? कुत एतदवगतम् ? सर्वदाऽप्रतीतेरिति चेत् ? तर्हि जीवोऽपि नास्त्येव, चिद्रूपतया भासमानत्वं चोभयत्र तुल्यम् , ईश्वरत्वं सदा न भासते इति चेत् ? जीवत्वेऽपि तुल्यमेतत् , उभयमपि तर्हि नास्त्येवेति चेत् ? न-- साक्षित्वस्यानुभवसिद्धत्वात् , जगन्मिथ्यात्वज्ञाने शुद्धचैतन्यज्ञाने सति शमादिक शुद्धचैतन्यज्ञानकारणमिति भ्रान्तेरभावात् तजन्यस्य शमाद्यनुष्ठानस्याप्यभावप्रसङ्गादित्यर्थः । अधिष्ठान चैतन्य ज्ञानं प्रमात्मकमिति न तत् प्रति अज्ञानात्मकदोषस्य कारणवम्, भ्रमं प्रत्येव तस्य कारणत्वादित्यज्ञानमात्रजन्यत्वं भ्रमे भवेत् , न तु चैतन्य साक्षात्कारे इत्याह-किञ्चेति । अधिष्ठानहाने नाज्ञानस्य कारणत्वमित्यत्र दृष्टान्तमाह- नहीति- शुक्तादिदं रजतमिति भ्रमे शुक्त्यज्ञानस्य करणत्वं न तु शुक्तिज्ञाने शुक्त्यज्ञानस्य कारणत्वमिति यथा शुक्तौ रजतश्रमे शुक्त्यज्ञान जन्यत्वं न तु शुकिज्ञाने शुक्स्यज्ञानजन्यस्त्वं तथा प्रकृतेऽपीत्यर्थः । उपसंहरति-तदिति- तस्मादित्यर्थः । मनानातिरिककारणाभावेऽपीत्यस्याज्ञानात्मदृष्टिव्यतिरिककारणाभावेऽपीत्यर्थः । ततश्च वेदे यागादौ स्वर्गादिसाधनतायाः सम्मतत्वाच्च । स्वर्गसूक्ष्मरूपस्येत्यस्यापूर्वस्येत्यनेनान्वयः, अपूर्वस्यादृष्टाख्यस्थ स्वर्गसूक्ष्मरूपत्वं स्वर्गकारणत्वादेव, एवं तस्य यागसूक्ष्मरूपत्वमपि यागव्यापारत्वात् , यदा च यागजन्यं स्वर्गजनकमपूर्वमुत्पद्यते तदैव किञ्चिदेशेन स्वर्गस्य सूक्ष्मरूपमपि सम्पद्यत इति स्वर्गसुक्ष्मरूपत्वमपूर्वस्य अपूर्वोत्पत्तिकाले स्थूलरूपेग यागस्य विनाशेऽपि सूक्ष्मरूपेणावस्थानं समस्त्येवेत्यभिसन्धिः। एतादृशस्यापूर्वस्य प्रमाणाभावादसिद्धत्वमिति नाशनीयं तस्य साक्षिसिद्धत्वादित्याशयेनाइ-साक्षिसिद्धस्येति । स्वर्गजनकत्वमित्यत्र च्छेदः। अपूर्वस्य साक्षि. सिद्धत्वं यदि भवेत् तदा स्वर्गजनकत्वं तस्य स्वीक्रियेतापि, न च तस्य साक्षिसिद्धत्वमननुभवादित्याशङ्कते-अपूर्वस्येति । "चिरध्वस्तं फलायालं न कर्मातिशय विना" [ कुसुमाजलौ ] इति वचनात् चिरध्वस्तस्य यागादेः साक्षात् स्वगोत्पत्तितोऽव्यवहितपूर्वसमयेऽसत्त्वेन वेदबोधितकारणत्वमनुपपन्न मिति तदन्यथानुपपत्त्या यागव्यापारतयाऽपूर्व कल्प्यत इति तस्य यागजन्यत्वं स्वर्गजनकत्वं चान्यथानुपपत्तिलक्षणार्थापत्तिप्रमाणसिद्धमेव, किन्तु दृष्टिसृष्टिवादे सर्वस्य ज्ञातसत्त्वमेवयदैव ज्ञायते तदेव सदित्यज्ञातसत्त्वं न कस्यापि स्वीक्रियते, तत एव चाज्ञानस्य कारणता साक्षिवेवेत्युपेयते, एवं चापूर्वमपि यद्यज्ञातं स्यान सत् स्यादित्यतस्तस्य साक्षिवेद्यत्वात् साक्षिसिद्धत्वमवश्यमभ्युपगन्तव्यमिति समाधत्ते-नेति । अज्ञानकारणताया इवेति- अज्ञाननिष्ठकारणताया यथा साक्षिसिद्धत्वाभ्युपगमस्तयेत्यर्थः । उपसंहरति-ततश्चेति । अन्यत् स्पष्टम् । शङ्कते-दृष्टिसृष्टिवाद इति । तदभेदप्रतीतिः त्वंपदार्थे जीवे तत्पदार्थस्येश्वरस्याभेदप्रतीतिः। समाधाता शङ्कितारं पृच्छति-कुत इति- दृष्टिसृष्टिवादे ईश्वरो नास्तीत्यवगतिर्भवतः कस्मात् कारणात् समुत्पनेत्यर्थः । प्रश्नयिता प्राह-- सर्वदेति- दृष्टिसृष्टिवादे यदेव प्रतीयते तदेव सत्, ईश्वरस्तु कदाचिदपि न प्रतीयत इति सर्वदाप्रतीतत्वान्नास्तीश्वर इत्यर्थः । समाधाता प्राह-तीति । सर्वदाऽप्रतीतेजींवोऽपि तन्मते नास्त्येवेति कथं जीवासत्त्वनिबन्धनाऽपि तदभेदप्रतीत्यनुपपत्ति शङ्किता ? यदि च चिद्रपतया भासमानत्वाज्जीवस्य प्रतीतेने तस्यासत्त्वं तर्हि चिद्रूपतया भासमानत्वेन तत्प्रतीतेरपि सद्भावादीश्वरस्यापि नासत्त्वमित्याह-चिद्रूपतयेति । उभयत्र जीवे ईश्वरे च । यद्यपि भासमानत्वमस्तीश्वरस्य, तथापीश्वरत्वं सदा न तत्र भासत इतीश्वरत्वेनेश्वरोऽप्रतीयमानो नास्तीत्युच्यते इत्याशङ्कते-ईश्वरत्वमिति । समाधाता प्राह- जीवत्वेऽपीति- जीवत्वं सदा न भासत इति जीवत्वेन जीवो नास्तीत्यप्युच्यतामित्यर्थः। दुर्दुस्ट:

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274