Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 194
________________ ३४४ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलड़तो नयोपदेशः । पाकजन्मना ज्ञानेन अज्ञानादिबाधः, तथाहि-तस्मिन् मते चैतन्यातिरिक्तपदार्थानामज्ञातसत्त्वं नास्ति, मिथ्यात्वस्य स्वप्नादिदृष्टान्तसिद्धत्वात् तादृशस्यैव सत्त्वस्याङ्गीकारात् एवं च घटादीनां यदा प्रतीतिस्तदा तत्वम् , नान्यदेति न दण्डादिजन्यत्वम्, किन्त्वज्ञानमात्रजन्यस्वम् , स्वप्नवञ्च दण्डाद्युपादानम् । अज्ञान. देहादिकं तु भासमानमेव तिष्ठति । अभावनिश्चयाभावाच पुत्राद्यभावकृतरोदनाद्यप्रसङ्गः, प्रत्यभिज्ञानमपि भ्रम एव, ततश्चाकाशादिक्रमेण सृष्टिः, पश्वीकरणं ब्रह्माण्डाद्युत्पत्तिश्चैतन्मते नास्त्येव, घटादेरपरोक्षं कस्यापि सत्त्वमित्यनेकजन्मसाध्यत्यान्ताभ्यासलक्षगश्रवणादिपरिपाकासम्भवात् कुतस्तत्प्रभवेनाऽऽत्मसाक्षात्कारेणाज्ञानादिवाध. सम्भव इत्याशङ्कते- कथं पुनरिति । निरुक्ताज्ञानादिवाधासम्भवमेव भावयति-सथाहीत्यादिना । तस्मिन् मते दृष्टिसृष्टिवादिमते । चैतन्यरूपस्य ब्रह्मणः सदातनत्वं तन्मतेऽप्यनीक्रियत इत्यत उर्फ चैतन्यातिरिक्तेति । अज्ञातसस्वं नास्तीत्यनेनाज्ञातसत्त्वप्रतिषेधेन चैतन्यातिरिक्तपदार्थानां ज्ञातसत्त्वमेव- ज्ञान कालीनसत्त्वमेव तन्मते समस्तीत्युपदर्शितम् । मिथ्यात्वस्येति-प्रप्रचो मिथ्या दृश्यत्वात् स्वप्नादिवदित्यनुमानतः प्रपञ्चमात्रस्य स्वमादिदृष्टान्तेन मिथ्यात्वस्य सिद्धत्वात्, तादृशस्यैव-मिथ्यात्वस्वरूपस्यैव ज्ञातसत्त्वस्य प्रपञ्चे स्वीकारादित्यर्थः । एवं च प्रपञ्चेऽज्ञातसत्त्वाभावस्य सिद्धौ च । तदा प्रतीतिकाले । तत्त्वं घटादीनां सत्त्वम् । नान्यदा प्रतीतिसमयातिरिकसमये न सत्त्वम् । इति एतस्माद्धेतोः । न दण्डादिजन्यत्वमिति- दण्डादिसमवधानसमयातिरिक्तसमये प्रतीयमानस्य घटादेस्तदेयोत्सत्तिः, तदानी धानाभावाद् दण्डादेर्घटादिनियताव्यवहितपूर्ववर्तित्वाभावेन कारणत्वाभावाद् दण्डादिनिष्ठकारणतानिरूपितकार्यतालक्षणं दण्डादिजन्यत्वं घटादीनां नास्तीत्यर्थः । तत् किं कारणं विनैव घटादीनामुत्पत्तिरिति पृच्छति-किन्विति । अज्ञानस्यानादेस्तन्मतेऽपि स्वीकारात् तस्य घटादिकारणत्वसम्भवेन तज्जन्यत्वं घटादेः सम्भवतीत्युत्तरयति- अमानमात्रजन्यत्वमितिघटादीनामित्यनुवर्तते । नन्वेवं घटादीनां दण्डादिजन्यत्वमाकलय्य तदर्थ दण्डादीनामुपादानं लोकैः क्रियते तदप्यनुपपन स्यादित्यत आह-स्वप्नवच्चेति-स्वप्नेऽपि घटादीनामज्ञानमात्रप्रभवाणामुत्पत्त्यर्थं दण्डाद्युपादानं यथा तथा प्रकृतेऽपीत्यर्थः, तथा च तत् कल्पितत्वान्मिथ्यवेति भावः । कथं तद्यज्ञानादीनामवस्थानमत आह- अज्ञानेति- तदवभासनं च साक्षिणेति बोध्यम् । ननु पितृ-मात्रादीनां यदा पुत्रादिदशनं नास्ति तदानीं पुत्राद्यभावात् तत्कृतरोदनादिप्रसङ्गः स्यादित्यत आह-अभावति- अदर्शनकाले पुत्रादीनामभावेऽपि पित्रादेः पुत्राद्यभावनिश्चयो नास्ति, पुत्रायभावनिश्चय एवं रोदनादि. कारणम्, वास्तविकसत्त्ववादिमतेऽपि देशान्तरगतस्य पुत्रादेर्मरणे तदभावो विद्यते, नैतावता पित्रादिभी रोदनं क्रियते, यदा दलादिन। तदभावनिश्चायकेन तदभावो निश्चीयते तदैव रोदनादिकं क्रियते इति स्वरूपसतः पुत्रायभावस्य न रोदनादिकारणत्वं किन्तु निश्चितस्यैवेति तदभावनिश्चयरूपकारणाभावान रोदनादिप्रसङ्ग इत्यर्थः। ननु ‘स एवायं घटः, स एवायं पुत्रः' इत्यादिप्रत्यभिज्ञानात् पूर्वकालीनदर्शनविषयेण घटादिना वर्तमानकालीनदर्शन विषयस्य घटादेरभेदः सिध्यति, स च तदैवोपपद्यते यद्यन्तरालसमयेऽज्ञातोऽपि घटादिः स्यादित्यन्तरालकालेऽपि घटादिविद्यते, एवं च प्रत्यभिज्ञानेन बाधान्न ज्ञातमात्रसत्रं घटादीनामित्यत आह-प्रत्यभिज्ञानमपीति- लून-पुनर्जातनख-केशादौ स एवार्य नख-केशादिरिति प्रत्यभिज्ञानं लून-पुनर्जातनख केशादेरभेदाभावेऽपि सौसादृश्यादिदोषाद् प्रान्तं समुद्भवति; दीपकलिकादावयनवरतविभिन्नतैलाधुपादानतो विभिन्नमेव दीपकलिकादिकमुपजायत इति पूर्वापरदीपकलिकाद्योरभेदाभावेऽपि संवेयं दीपकलिकति प्रत्यभिज्ञानमभेदावगाहि प्रान्तमुपजायते सौसादृश्यादिदोषात् तथा सर्व प्रत्यभिज्ञानं भ्रम एवेति न ततो. ऽज्ञातसवसिद्धिरित्यर्थः। तत्र सृष्टिक्रमो न विद्यत इत्याह- ततश्चेति- यदा घटादीनां प्रतीतिस्तदानीमेव घटादीनां सत्वमित्युपगमाचेत्यर्थः । आकाशादिक्रमेण सृष्टिरित्यस्य नात्स्येवेत्यनेनान्वयः, एवं पञ्चीकरणं ब्रह्माण्डाद्युत्पत्तिश्चेत्यस्यापि । पतन्मते दृष्टिसृष्टिवादिमते । ननु अपरोक्षकारणस्येन्द्रियादेरज्ञानकाले सत्त्वं नैतन्मते समस्तीति यदा घटादीनां दर्शनं तत्पूर्वकाले इन्द्रियादेर्दर्शनाभावादतीन्द्रियत्वाच्च न सत्त्वमिति तज्जन्यत्वभावादिन्द्रियादिजन्यं ज्ञान प्रत्यक्ष. मिति लक्षणलक्षितप्रत्यक्षस्त्ररूपं घटादेर्शानं न स्यादित्यत आह- घटादेरपरोक्षमिति- अपरोक्षस्वरूपचैतन्येऽभ्यासादेव घटादेरपरोक्षं ज्ञानमित्यर्थः । ननु क्षणमात्रस्थायित्वाद् घटादिज्ञानं क्षणिकं तदात्मकसत्वमेव घटादेरिति तस्यापि क्षणिकत्व. मिति यत् सत् तत् क्षणिकमिति व्याप्तितः सर्वस्य क्षणिकत्वमभ्युपगच्छतो बौद्धस्य मते दृष्टिसष्टिवादिमतस्य प्रवेशः

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274