Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
मयामृततरङ्गिणी-तरङ्गिणीतरणियां समलकृतो भयोपदेशः ।
वादिकेन फलेन फलवत्ताया निर्णयात् तत्संनिधौ श्रुतस्याफलस्य सन्न्यासस्य प्रयाजादिवदनस्वाश्रवणस्यायौक्तिकत्वात् , प्रमाणं च तत्र प्रयाजादिवत् प्रकरणमेव । अथैतदात्मन एव प्रकरण न श्रवणस्यैवेति चेत् ? न- उपक्रमोपसंहारादिलिङ्गैरात्मनः प्रतिपाद्यत्वप्रतीतेरात्मनः प्रकरणमित्यभिधीयमानेऽप्यङ्गत्वावेदकस्योभयाकासारूपस्य प्रकरणस्यापि सुव्यवस्थितत्वात् , तथाहि- यथा प्रयाजा उपकार्याकासाः प्रधानयागोऽप्युपकारकाकाङ्क्ष इत्युभयाकासा प्रयाजानां प्रकरणम् , तथा सन्न्यासोऽप्युपकार्याकाङ्कः श्रवणमप्युपकारकासमित्युभयाकलाप्रकरणं सन्न्यासस्य, तदेव च श्रवणाङ्गत्वसाधकमिति किमत्रार्थवादिकफलकल्पनाक्लेशेनेति विक् । तस्मात् युक्तमुक्तं साधनचतुष्टयसम्पन्नः श्रवणाद्यधिकारीति । सोऽयमधिकारी श्रोत्रियं ब्रह्मनिष्टं गुरुमनुस्मृतः श्रवणादि सम्पादयति । श्रवणादिकं तु-श्रवणं १, मननं २,
आत्मसाक्षात्कारलक्षणफलजनकत्वादगीभूतं तथा संन्यासस्याप्यनित्वमेव न्याय्यम् , तस्याङ्गित्वोपपत्तये फलान्तरमेव कल्पयितुमुचितमित्याशयेनाह- अज्ञानेति- अत्र 'अज्ञानात्वस्यैव" इत्यस्य स्थाने “अशिस्वस्यैव" इति पाठो युक्तः । निषेधे हेतुमाह- श्रवणस्येति । दृष्टार्थत्वात् मनन-निदिध्यासनद्वारा साक्षात्काररूपदृष्टप्रयोजनकत्वात् । यद्यपि आत्मसाक्षात्कारकाम आत्मश्रवणं कुर्यादित्येवमात्मश्रवणस्य फलतया आत्मसाक्षात्कारो न विहितस्तथापि आत्मश्रवणस्यार्थवादिकात्मसाक्षात्कारफलवत्तया फलवत्त्वं समस्त्येवेत्याह- दृष्टेनैवेति । यदा चार्थवादिकफलवत्तया फलवत्त्वं श्रवणस्य निश्चित तदा फलवत्सन्निधौ भ्रयमाणमफलं तदहं भवतीति न्यायात् फलवच्छवणसन्निधौ श्रयमाणस्य संन्यासस्य श्रवणा इत्वं स्यादेव यथा-स्वर्गकामो दर्श-पूर्णमासाभ्यां यजेतेति विधिना फलवत्तया विहितस्य दर्श-पूर्णमासस्य यागस्य सन्निधौ समिधो यजती. त्यादिविधिना विहिताः प्रयाजाः फलशून्यास्तदनं भवन्तीत्येवं संन्यासस्य श्रमणात्वाश्रयणं युक्त्युपेतमेवेत्याह- तत्सन्निधाविति-फलवच्छत्रणसन्निधावित्यर्थः। "दलत्वाश्रवणस्थायौक्तिकत्वात्" इत्यस्य स्थाने " दङ्गत्वाश्रयणस्य यौक्तिकत्वात्" इति पाठो युकः। अङ्गाङ्गिभावबोधकानां श्रुति-लिङ्ग-वाक्य-प्रकरण-स्थान-समाख्यानां षण्णां प्रमाणानां मध्यात् किमत्र प्रमाण, यदलाच्छ्रवणाङ्गत्वं सन्न्यासस्य स्वीकरणीयमित्याकालायामाह-प्रमाणं चेति । तत्र संन्यासस्य श्रवणाङ्गत्वे । ननु यत्र प्रकरणे संन्यासादीनां विधानं तत् प्रकरणमात्मन एव न तु श्रवणस्येति संन्यासस्व प्रकरणादात्माङ्गत्वमेव स्थान श्रवणाङ्गत्वमिति शङ्कते- अथेति । “श्रवणस्यैवेति" इत्यस्य स्थाने "श्रवणस्येति" पाठो युक्तः । समाधत्ते-नेति । उपक्रमोपसंहारादीति- " उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये ॥ १॥" [ ] इति वचनाद् आदिपदादभ्यासादीनां पञ्चानां ग्रहणम् । लिङ्गः तात्पर्यलिङ्गैः उपक्रमोपसंहारादिभिः “तत् त्वमसि" [निरा. ३.] इत्यादिवाक्यानामात्मन्येवं तात्पर्यमिति निश्चयत उक्तवाक्यत मात्मनः प्रतिपाद्यत्वप्रतीतेस्तादशवाक्य कदम्बकात्मकः सन्दर्भ आत्मनः प्रकरणमित्येवमभिधीयमानेऽपीत्यर्थः । तथा चैतादृशं प्रकरण श्रवणस्य नास्तीति भावः, तथापि येन प्रकारेणाङ्गाङ्गिभावोऽवबुध्यते तत् प्रकरणं श्रवणस्यास्तीत्याह- अङ्गत्वावेदकस्येति । उभयाकालारूपप्रकरणस्याङ्गत्वावेदकं दृष्टान्तोपष्टम्भेन भावयति-तथाहीति- समिधो यजतीत्यादिविधिविहितानां प्रयाजानां किञ्चित्फल कामनयाऽविहितानां प्रधानत्वासम्भवात् किञ्चित्फलवस्कर्मोपकारकत्वमवश्यमेषित्तव्यमित्युपकार्याकालाः प्रयाजाः, दर्श पूर्णमासाभ्यां स्वर्गकामो यजेतेति विधिविहितौ दर्श-पूर्णमासयागौ फलकामनया विहितत्वात् प्रधानौ भवतोऽपि कथमेतौ कर्तव्यावितीति कर्तब्यताकाङ्खाशालिस्वादुपकारकाकाक्षावित्येवमुभयाकाङ्क्षालक्षणप्रकरणेन यथा प्रयाजानां दश-पूर्णमासयागाङ्गत्वम् , तथा च समिदादिभिर्दर्श-पूर्णमासाभ्यां स्वर्गकामो यजेतेत्येवं विधिस्वरूप निराकाई सम्पद्यते, तथा संन्यासेन किं भावयेदित्येवं संन्यासस्यास्त्युपकार्याकाला, श्रवणं कथं भावयेदिति श्रवणस्याप्यस्त्युपकारकाकालेत्येवमुभयाकावारूपप्रकरणात् सन्यासस्य श्रवणाङ्गत्वम् , एवं च प्रधानीभूतश्रवणफलेनैव संन्यासस्य फलवत्त्वोपपत्तन तस्यार्थवादिकफलकल्पनाक्लेशो विधेय इत्यर्थः । उपसंहरति- तस्मादिति । एवम्भूतः श्रवणाधिकारी कथं श्रवणादि सम्पादयतीत्यपेक्षायामाह- सोऽयमधिकारीति- अस्य सम्पादयतीत्यनेनान्वयः । श्रोत्रियम् अध्ययनाऽध्यापनादिना यथावच्छ्रत्यर्थज्ञातारम् । ब्रह्मनिष्ठं शुद्धचैतन्यस्वरूपं ब्रह्मैव सत्यं तदन्यन्मिथ्येत्येवं ब्रह्मैकश्रद्धम्। गुरुं

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274