________________
विंशतितमी षट्त्रिशिका
अथ विंशतितमीं षट्त्रिशिकामाह
मूलम् - सोलसवयणविहिन्नू, सत्तरसविहसंजमंमि उज्जुत्तो । तिविराहणाविरहिओ, छत्तीसगुणो गुरू जयउ ॥२१॥
छाया - षोडशवचनविधिज्ञः, सप्तदशविधसंयमे उद्युक्तः । त्रिविराधनाविरहितः, षट्त्रिंशद्गुणो गुरुर्जयतु ॥२१॥
प्रेमीया वृत्तिः - षोडशवचनविधिज्ञः - षोडशवचनविधीन् जानातीति, तथा सप्तदशविधसंयमे सप्तदशविधे चारित्रे, उद्युक्तः उद्यमवान्, तथा त्रिविराधनाविरहितः - त्रिभिर्विराधनाभिर्विरहितः, इति षट्त्रिशद्गुणो गुरुर्जयत्विति पदार्थः ।
-
उपनिषदर्थस्त्वयम् - उच्यते इति वचनम् । तस्य विधयः- प्रकारा इति वचन - विधयः । ते षोडश । तद्यथा १ अतीतवचनं, २ वर्त्तमानवचनं, ३ अनागतवचनं, ४ एकवचनं, ५ द्विवचनं, ६ बहुवचनं ७ पुंलिङ्गवचनं, ८ स्त्रीलिङ्गवचनं, ९ नपुंसकलिङ्गवचनं, १० परोक्षवचनं, ११ प्रत्यक्षवचनं, १२ उपनीतोपनीतवचनं, १३ उपनीतापनीतवचनं, १४ अपनीतोपनीतवचनं, १५ अपनीतापनीतवचनं, १६ अध्यात्मवचनञ्च । यत्प्रत्यपादि प्रवचनसारोद्धारे तद्वृत्तौ च -
‘इदानीं ‘वयणसोलसगं ति चत्वारिंशदुत्तरशततमं द्वारमाह
-
-
-
कालतियं ३ वयणतियं ६ लिंगतियं ९ तह परोक्ख १० पच्चक्खं ११ । उवणयऽवणयचउक्कं १५ अज्झत्थं चेव सोलसमं ॥८९६ ॥
(छाया- कालत्रिकं ३ वचनत्रिकं ६ लिङ्गत्रिकं ९ तथा परोक्षं १० प्रत्यक्षं ११ । उपनताऽपनतचतुष्कं १५ अध्यात्ममेव षोडशम् ||८९६ ॥ )