Book Title: Gurugun Shattrinshtshatrinshika Kulak Part 02
Author(s): Ratnabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
अष्टादश पापस्थानानि
७६९ स्त्यानद्धिनिद्रोदयवानप्यत्र द्रष्टव्यः, गृहदास्याः सञ्जातो दुर्भिक्षादिष्वर्थादिना वा क्रीतः ऋणादिव्यतिकरे वाऽवरुद्धो दास उच्यते, दुष्टो द्विधा कषायदुष्टो विषयदुष्टश्च, तत्र सर्षपभर्जिकाभिनिविष्टसाध्वादिवदुत्कटकषायः कषायदुष्टः, अतीव परयोषिदादिषु गृद्धो विषयदुष्टः, स्नेहाज्ञानादिपरतन्त्रतया यथाऽवस्थितवस्त्ववगमशून्यमानसो मूढः, यो राजादीनां हिरण्यादिकं धारयति स ऋणातः, जातिकर्मशरीरादिभिर्दूषितो जुङ्गितः, तत्र मातङ्गकोलिकवरुण्डसूचिकच्छिपकादयोऽस्पृश्या जातिजुङ्गिताः, स्पृश्या अपि स्त्रीमयूरकुक्कुटादिपोषकाः वंशवरत्रादिरोहणनखप्रक्षालनसौकरिकत्ववागुरिकत्वादिनिन्दितकर्मकारिणः कर्मजुङ्गिताः, चरणकरकर्णादिवर्जिताः पङ्गकुब्जवामनककाणप्रभृतयः शरीरजुङ्गिताः, अर्थग्रहणपूर्वकं विद्यादिग्रहणनिमित्तं वा एतावन्ति दिनानि त्वदीयोऽहमित्येवं येनात्मनः परायत्तता कृता भवति सोऽवबद्धः, रूपकादिमात्रया भृत्या धनिनां गृहे दिनपाटिकादिमात्रेण तदादेशकरणाय प्रवृत्तो भृतकः, शिक्षकस्य दीक्षितुमिष्टस्य निष्फेटिकाअपहरणं शिक्षकनिष्फेटिका, तद्योगाद् यो मातापित्रादिभिरननुज्ञातोऽपहृत्य दीक्षितुमिष्यते सोऽपि शिक्षकनिःस्फे टिका, इत्येतेऽष्टादश पुरुषस्य-पुरुषाकारवतो दीक्षानीं भेदा इत्युत्तरगाथायां सम्बन्धः, एषां च बालादीनां दीक्षाप्रदानेन प्रवचनमालिन्यसंयमात्मविराधनादयो दोषाः सुखावसेया एवेति न दर्शिताः, वैरस्वाम्यादीनां च प्रव्राजनेऽपवादपदं निशीथादवसेयमिति सातिरेकगाथाद्वयार्थः ॥१२४-१२५॥'
गुरुरेतानष्टादश पुरुषदीक्षादोषान् दूरेण परिहरति । स स्वयमेतद्दोषरहितो भवति । सोऽन्यानप्येतद्दोषरहितानेव प्रव्राजयति ।
'पापं-कल्मषं तिष्ठति वसति कार्यतया अमीषु इति पापस्थानानि ।' ___ इति पापस्थानानां व्याख्या कृता पञ्चलिङ्गीप्रकरणबृहद्वृत्तौ श्रीजिनपतिसूरिभिः । पापस्थानान्यष्टादशविधानि । तद्यथा - १ प्राणिवधः, २ अलीकं, ३ अदत्तग्रहणं, ४ मैथुनं, ५ परिग्रहः, ६ क्रोधः, ७ मानः, ८ माया, ९ लोभः, १० रागः, ११ द्वेषः, १२ कलहः, १३ अभ्याख्यानं, १४ रत्यरती, १५ पैशून्यं, १६ परपरिवादः, १७ मायामृषावादः, १८ मिथ्यात्वशल्यञ्च । यदाहुः संवेगरङ्गशालायां श्रीजिनचन्द्रसूरयः -
'पंसयइ अवगुंडइ, जीवं जं तेण भन्नइ पावं । ठाणाणि पयाणि भवंति, तस्स अट्ठारस इमाणि ॥५५७८॥

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410