SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ विंशतितमी षट्त्रिशिका अथ विंशतितमीं षट्त्रिशिकामाह मूलम् - सोलसवयणविहिन्नू, सत्तरसविहसंजमंमि उज्जुत्तो । तिविराहणाविरहिओ, छत्तीसगुणो गुरू जयउ ॥२१॥ छाया - षोडशवचनविधिज्ञः, सप्तदशविधसंयमे उद्युक्तः । त्रिविराधनाविरहितः, षट्त्रिंशद्गुणो गुरुर्जयतु ॥२१॥ प्रेमीया वृत्तिः - षोडशवचनविधिज्ञः - षोडशवचनविधीन् जानातीति, तथा सप्तदशविधसंयमे सप्तदशविधे चारित्रे, उद्युक्तः उद्यमवान्, तथा त्रिविराधनाविरहितः - त्रिभिर्विराधनाभिर्विरहितः, इति षट्त्रिशद्गुणो गुरुर्जयत्विति पदार्थः । - उपनिषदर्थस्त्वयम् - उच्यते इति वचनम् । तस्य विधयः- प्रकारा इति वचन - विधयः । ते षोडश । तद्यथा १ अतीतवचनं, २ वर्त्तमानवचनं, ३ अनागतवचनं, ४ एकवचनं, ५ द्विवचनं, ६ बहुवचनं ७ पुंलिङ्गवचनं, ८ स्त्रीलिङ्गवचनं, ९ नपुंसकलिङ्गवचनं, १० परोक्षवचनं, ११ प्रत्यक्षवचनं, १२ उपनीतोपनीतवचनं, १३ उपनीतापनीतवचनं, १४ अपनीतोपनीतवचनं, १५ अपनीतापनीतवचनं, १६ अध्यात्मवचनञ्च । यत्प्रत्यपादि प्रवचनसारोद्धारे तद्वृत्तौ च - ‘इदानीं ‘वयणसोलसगं ति चत्वारिंशदुत्तरशततमं द्वारमाह - - - कालतियं ३ वयणतियं ६ लिंगतियं ९ तह परोक्ख १० पच्चक्खं ११ । उवणयऽवणयचउक्कं १५ अज्झत्थं चेव सोलसमं ॥८९६ ॥ (छाया- कालत्रिकं ३ वचनत्रिकं ६ लिङ्गत्रिकं ९ तथा परोक्षं १० प्रत्यक्षं ११ । उपनताऽपनतचतुष्कं १५ अध्यात्ममेव षोडशम् ||८९६ ॥ )
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy