Book Title: Dwashashthi Margana Sangraha
Author(s): Vishalvijay
Publisher: Yashovijay Jain Granthamala

View full book text
Previous | Next

Page 276
________________ तशीयमहामाह-पाउनामिभयोधका । भागत्यामु मुनिप्राइं वियां विनयेनामहीत ॥१७॥ (युग्मम्) वर्धमानपुरे रम्पे पानाचन्द्रसुभेष्ठिनः । छात्रालयस्य मन्दिरे प्रतिष्ठामकरोच्छुभाम् ॥ १८ ॥ दघरेज-छनीयारनामयोष सुमन्दिरे । प्रतिष्ठाद्वयमकार्षीत् विधिना शास्त्रविदसौ ॥ १९॥ मोजकप्रभुदासोऽपि सपत्नीका ग्रहीद् व्रतम् । चतुर्थ यन्मुनिपार्थे जैन धर्म च तत्सुतौ ॥ २० ॥ इतश्च गूर्जरेष्वस्ति राजधन्यपुरं पुरम् । उत्तुङ्गः प्रवरैरहन्मन्दिरैः परिमण्डितम् ॥ २१॥ श्रीमच्छीमालवंशीयस्तद्वास्तव्यो वणिग्वरः । भष्ठी सुराभिधोऽपद् यः पुण्यकर्माण्यकारयत् ॥ २२ ॥ तदन्वयेऽभयचन्द्रश्चत्वारोऽपि च तत्सुताः । दिपालका इवामान्ति प्रथमश्च झूठाभिधः ॥ २३ ।। तत्सुतो जीवनो येन जीवितं सफलीकृतम् । जिननिम्बान्यनेकानि यः सुकतान्यकारयत् ॥ २४ ॥ तदन्वये जसराजा या पवित्रीकुताशयः। मीयाग्रामजिनालयशिखरं पदकारयत् ॥ २५ ॥ तत्पौत्री मूलजीनाम देवगुर्वाश्च पादुका। द्वाविंशतिमिताबके संसारार्णवतारिकाः ॥ २६ ॥ तत्पुत्रास्त्रयः कुशलाः त्रिरत्नानीव झज्जवलाः । प्रथमा मातीचन्द्रोऽभवू दामसिंहो द्वितीयका ॥ २७ ॥ इतीयो धर्मराजस्ते जिनविम्वान्यस्थापयन् । राजधन्यपुरीयभीषान्तिनाथजिनालये ॥ २८ ॥

Loading...

Page Navigation
1 ... 274 275 276 277 278 279 280