Book Title: Dwashashthi Margana Sangraha
Author(s): Vishalvijay
Publisher: Yashovijay Jain Granthamala

View full book text
Previous | Next

Page 277
________________ ૩ ८३ ८१ ..स्वग्निवभूमि प्रातिष्ठपश्च वत्सरे । महताsssम्बरेण ते सार्थयन्तश्च जीवितम् ॥ २९ ॥ श्रेष्ठी त्रिकमचन्द्रोऽभूत् तद्वैशे ख्यातिमान् सुधीः । जिनेन्द्रदेशिते धर्मे सदा स्थिरदृढाशयः ॥ ३० ॥ तस्य प्रधान देवीति धर्मपत्न्यजनिष्ट या । सदाचारा सुशीला च पतिभक्तिपरायणा ॥ ३१ ॥ तयामधीति नामाऽस्ति धर्मकर्मरता सुता । पुत्रौ स्ता हरगोविन्द - वृद्धिचन्द्राभिषैौ पुनः ॥ ३२ ॥ लब्धव्युत्पत्तिकेा ज्येष्ठो न्याय-व्याकरणादिषु । अवदध्यापका मंगविश्वविद्यालये चिरम् ।। ३३ ।। A संपादितान्यनेकानि तेन शास्त्राणि धीमता । : कृतः प्राकृतशब्दानां केाशेऽपूर्व विश्रुतः ॥ ३४ ॥ ( युग्मम् ) अनुजस्तु गुरेराः पार्श्वे दीक्षां भागवतीं श्रयन् । गुरुणा कृतया ख्याता विशाल विजयाख्यया ॥ ३५ ॥ गुरोः प्रसादतस्तेनाय शास्त्राम्बुधिं ततः । साराणि सूक्तरत्नान्यादाय सद्ग्रन्थराशितः ॥ ३६ ॥ पञ्चभागात्मका ग्रन्थः सानुवादोऽपि निर्ममे । संपादितश्थ प्राचीन संस्कृतस्तवसंग्रहः ।। ३७ ।। ( युग्मम् ) जयन्तोपासकः शिष्पर्विचाल विजये। सुनिः । द्वाषष्टिमार्गणाग्रन्थमगुम्फीद् बालबोधकृत् ॥ ३८ ॥ मनसा सावधानेन कृतेऽत्र ग्रन्थकर्मणि । काश्चन स्खलनाः याः स्युस्ता मे क्षाम्यन्तु सज्जनाः ॥ ३९॥

Loading...

Page Navigation
1 ... 275 276 277 278 279 280