SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra दौपदी चरित्रम् ॥१४॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तःपुरे समानिनाय ततः स पद्मोत्तरो राजा तां द्रौपदीं जगौ भो द्रौपदि ! त्वं मया सह भोगान् भुंक्ष्व ? ममेदं सकलमपि राज्यं तवैवास्ति, मनोवांछितवस्त्राभूषणादि गृहाण, सर्वास्वपि मदीयराज्ञीषु त्वं पट्टराज्ञी भव ? अहं तु तव किंकर इव सर्वं मनोऽभिलाषं पूरयिष्यामि इत्यादि मिष्टवचनान्युक्त्वा भूरिप्रकारैस्तस्याः शीलखंडनार्थं तेन प्रयत्नः कृतः परं द्रौपद्या मनो मनागपि न चलितं गतः - स्वाधीनेऽपि कलत्रे । नीचः परदारलंपटो भवति ॥ संपूर्णेऽपि तडागे । काकः कुंभोदकं पिबति ॥ १ ॥ अथ तत्रस्थिता द्रौपदी स्खशीलं रक्षती सर्वदा पंचपरमेष्टिनमस्कारपरावर्तनपरा षष्टाष्टमादितपः कर्तुं प्रवृत्ता. इततः पुरे द्रौपदीमनालोक्य ते पंचापि पांडवाश्चिंतातुरा अभितो गवेषयामासुः परं कुत्रापि तस्याः शुद्धिर्न लब्धा. ततस्ते श्रीकृष्णवासुदेवपार्श्वे गत्त्वा द्रौपदीगमनवृत्तांतं कथायामासुः तत् श्रुत्वा हास्यपरेण कृष्णेनोक्तं यूयं महासुभटाः पंचैकामपि निजपत्नों रक्षितुं नालं जाताः ? पांडवैरुक्तं भो कृष्ण ! अधुना हास्येनालं, स्वं समर्थो वासुदेवोऽसि, अतः केनाप्युपायेन तस्याः शुद्धिं लभस्ख ? ततः कृष्णेनापि तस्याः | शुद्धिप्राप्त्यर्थं बहव उपायाः कृताः, परं समस्तेऽपि भारते क्षेत्रे कुलापि तस्याः शुद्धिर्न लब्धा. इतोऽन्ये For Private and Personal Use Only मूल ॥१४॥
SR No.020321
Book TitleDraupadi Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherShravak Hiralal Hansraj
Publication Year1939
Total Pages20
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy