Book Title: Visesavasyakabhasya Part 2
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 251
________________ ५२४ विशेषावश्यकभाष्ये नि० ५४१अयं प्रयोगः-अयमतीतनयानां प्रस्थादि च मानं न भवति, चेतनारहितत्वात् घटवल्लोष्टवद्वा, वैधhण केवलज्ञानं मानम्. सर्वनयाभिमतत्वादेकान्तपरिच्छेदसामर्थ्यात् । अथ यात्-प्रस्थादयो मानम्, मानकारणत्वात् , जीववत् । तच्च न यतः प्रस्थके सत्यपि पूर्व परिकल्पिते तज्ज्ञानं न भवति, असत्यपि च कस्यचिद्भवतीत्यव्यापकत्वादव्यापकासिद्धः । अथवाऽभ्युपगम्यापि तत्कारणत्वम् - अनैकान्तिको हेतुः, अमानेऽपि प्रमेये तत्कारणत्वं दृष्टमिति । तस्मात् सर्वमेव त्रैलोक्यं मानमिति न किञ्चिदुक्तमिति ॥२७१४-१७॥ देसी चेव य देसो णो वत्थु वा ण वत्थुणो भिण्णो । भिण्णो व ण तस्स तओ तस्स व जति तो' ण सो भिण्णो ॥२७१८॥ देसी गाहा । धर्मास्तिकायादीनां देशकल्पनया समभिरूढनयस्य द्वन्द्वसमासो वा कर्मधारयसमासो वाऽभीष्टसंज्ञान्तरेऽप्युपात्तस्येति वचनात्, पर्यायशब्दानामपि द्वन्द्वसमासोऽनान्तरत्वात् , तत्पुरुषसमासं व्यधिकरणत्वान्नेच्छति । तस्मादेशिनो देश इति अपप्रयोगः । देशव्यतिरेकेण देशस्याऽभावाद्देशमन्तरेण च देशिनोऽभावात् एकमेवेदं वस्तु देशी देशश्चेति । अथ पुनर्भेदोऽभ्युपगम्यते देशिनो देश इति । एवं न 'तस्यासौ' इति युक्तं वक्तुम्, भिन्नत्वात् , आकाशस्येव रूपम् । अथ 'तस्यासो' इति भण्यते तर्हि [न] भिन्नः 'तस्य' इति व्यपदिश्यमानत्वात्, आकाशावगाहवत् जीवोपयोगवदित्यादि । ननु च देवदत्तस्याश्वः, राज्ञः पुरुष इत्यादिनाऽनैकान्तिकः । उच्यते-सर्वमेतदस्य नयस्य प्रतिज्ञान्तर्गतमेवेति नाऽनैकान्तिकः ॥२७१८॥ एत्तो च्चेय समाणाधिकरणता जुज्जते पदाणं पि । णीलप्प[१७९-०]लातियाणं ण राजपुरिसातिसंसग्गा ॥२७१९॥ ___एतो च्चेय गाहा । अत एव सर्वपदानां समानाधिकरणमे मिष्यते, नीलोत्पलादिपदवत्, न व्यधिकरणता, राजपुरुषवदित्यादि संसर्गाभावादिति ॥२७१९|| घडकारविवक्खाए कत्तुरणत्यंतरं जतो किरिया । ण तदत्यंतरभूते समवाओ तो मतो तीसे ॥२७२०॥ कुंभम्मि वत्थुपज्जायसंकरादिप्पसंगदोसातो । जो जेण जं च कुरुते तेणाभिष्णन्तयं सव्वं ॥२७२१॥ १ ते त । २ "मासान -इति प्रतौ । ३ स्यानावा -इति प्रतौ । ४ प्रतिज्ञाते भूतेगंतमेभेति-इति-प्रतौ । ५ चेव को हे त । ६ राइपु त । ७ 'सग्गो को हे त। ८ व को हे । ९ 'भिन्न त° को हे। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338