Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
श्रीवल्लभोपाध्यायविरचितं
[सप्तमः अशोभन्ततरां तत्र कुत्राचबहुलातरः । शश्वत्कारस्कराः साराः सहकारादयः किल ॥६८॥ तमेष्यन्ति नरा द्रष्टुं ये तेऽतिपदुःखिताः। मा भवन्तु निषीदन्तु च्छायास्विति स्थिता इव ॥ कुत्रचित्तत्र मातङ्गार रङ्गाः करभा अपि । तिष्ठन्तु स्वामिनः श्रान्ता इति भक्त्या स्थिता इव ॥ तस्योपरि समाकृष्टमुत्कृष्टं व्यलसत् स्थुलम् । चतुर्दिग झल्लरीयुक्तं वियुक्तं सर्वदूषणैः ॥७॥ श्वेतमिव बहिः श्वेतं प्रत्यक्षश्वेतपर्वतम् । ब्रुवन्ति पण्डिता यत्तद् व्यद्योतततरां किल ॥७२॥ घावाभूम्योर्विचालस्थं विमानं कोऽपि कौतितम् । चित्रव्याजात्समायुक्तं सुपर्वत्वात् सुपर्वभिः॥ तत्रान्तर्यत्र चित्राणि पुरुषाणां योषितामपि । तन्मिषात्तानि तं द्रष्टुं छन्ना देवा इवाबभुः॥ सद्वर्णा इव सद्वर्णाः प्रस्तीर्णा लिखिता बुधैः। तस्याऽशोभन्त भूपट्टे नानाकारा बुधादराः ॥ पदमिहाप्यनुकृष्य व्याखेयं । ततो नरा देवान् अर्चन्तु इतीच्छया इति वाञ्छया बभुर्वा शुशुभिरे इव । अत्र वार्तालेशः पुष्पाणि हि इत्यचिन्तयन् यन्नराः श्रीविद्याविजयं द्रष्टुमायास्यन्ति तत्र च नन्दिमारोपयिष्यन्ति नन्दौ च देवप्रतिमा भविष्यन्ति तासां पूजाथै तत्कालगृहीतपुष्पाणि विलोक्यन्ते। ततो वयं प्रागेव तत्र भवामश्चेहि त अस्मान् लात्वा प्रतिमाः पूजयन्ति इति वाञ्छया पुष्पाणि ब रिवेति कवेरुत्प्रेक्षा | वा इत्यव्ययमिवार्थे ।
६९-ननु माघमासे पदमहोत्सवोऽभूत् । माघस्य शिशिरतौँ संभवात्कथं अर्कातपदु:खिता इति । श्रूमः शिशितौँ अतिशीतत्वात् अर्कातपस्य सुखकारित्वेऽपि प्रायोदुःखकारित्वात् प्रभूतकालमासेवनेन दुःसहत्वात् । अर्कोतपदुःखिता मा भवन्तु, छायासु निषीदन्तु इति सहकारादीनां विचारो न दुष्ट इति ।
७२-तस्थुलं व्यद्योतततरां अतिशयेन व्यराजत । तदिति किं यत् स्थुलं प्रति पण्डिताः प्रत्यक्षश्वेतपर्वतं कैलासपर्वतं ब्रुवन्ति । कथंभूतं स्थुलं बहिः श्वेतं धवलं । किमिव ? श्वेतमिव रूप्यमिव । यथा रूप्यं श्वेतं भवेत्तथेदमपि बहिः श्वेतं । स्थुलस्य बहिः श्वेतत्वात् रूप्योत्प्रेक्षा कैलासपर्वतोत्प्रेक्षा च युक्ता।
७३-कोऽपि अर्थात् कविः। तं मण्डपं द्यावाभूम्योराकाशप्रार्थव्योर्विचालस्थं मध्यस्थित विमानं कैति कथयति नायं मण्डपः किन्तु विमानमिति । कथं ? चित्र व्याजात् । देवदेवीचित्रमिषात् सुपभिर्देवैस्समायुक्तं सहितं कस्मात्सुपर्वत्वात् प्रधानमहोत्सवात्।
___७५-तस्य मण्डपस्य भूपट्टे सद्वर्णा इव प्रधानाक्षराणीव । सद्वर्णाः प्रधानास्तर' दलीचा प्रमुखाच्छादनवनविशेषा अशोभन्त । कथं भूताः सद्वर्णा बुधैश्चतुरनरैः फरास इत्यादि भाषा प्रसिद्धैः प्रस्तीर्णा विछाया इति भाषाप्रसिद्धाः । द्वितीयपक्षे-कथंभूताः सद्वर्णाः प्रधानाक्षराणि बुधैः पण्डितैः प्रस्तीर्णा विस्तारं प्राप्ताः । पुनः कथंभूताः ? लिखिता इव लिखिताः। द्वितीय

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140