Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 353
________________ ३२४ दर्पणपरीक्षासहिते भूषणसारेस्वार्थबोधकत्वव्युत्पत्तेः । अनुगच्छतीत्यादौ-अनुभवादिप्रत्ययापत्ते. श्च । न विशिष्टार्थः, गौरवात् । तथाच धातोरेव विद्यमानत्वादिवाचकस्यास्तु लक्षणा, उपसर्गस्तात्पर्य्यग्राहक इत्यस्तु । तथा च तात्पर्यग्राहकत्वमेव द्योतकत्वमिति। । तच्च चादिष्वपि तुल्यम् । चैत्रमिव पश्यतीत्यादौ सादृश्यविशिष्टं चैत्रपदं लक्ष्यम् । इवशब्दस्तात्पर्यग्राहक इत्यस्य सुवचत्वादिति। दर्पणः देर्न धातुत्वानुपपत्तिरत आह-*अनुगच्छतीत्यादाविति । अत्रानोरनुभवाऽर्थकत्वे तदनुरोधेन गमेरपि व्यापारसामान्याऽर्थकताया एवाऽभ्युपेयतया तथा प्रतीतिदुर्वारा स्यादित्यर्थः। वस्तुतस्तु संयोगाऽवरुद्धव्यापारेऽन्वर्थानुभवस्य बाधेनाऽन्वयासम्भवान्नाऽनोरनुभवार्थकत्वसम्भावनेति भावः । *गौरवादिति । विशिष्टानुपूर्व्याः शक्ततावच्छेदकत्वे गारवादित्यर्थः । *तथाचेति । धातूपसर्गविशिष्टानां प्रत्येकं प्रतीयमानानुभवार्थप्रति. पादकत्वासम्भवादिति समुदितार्थः । विद्यमानत्वादीत्यादिनोत्पत्तिर्गृह्यते । लक्षणे. त्यस्यानुभवादिरूपेऽर्थे इति शेषः । लक्षणाकल्पिकायास्तात्पर्य्यानुपपत्तेस्ताप्तर्यग्रहाऽधीनतया तस्य चोपसर्गसमभिव्याहाराद्यायत्तत्वादित्यर्थः। नन्वेतावतोपसर्गस्य तात्पर्य्यग्राहकत्वमेव समायातं, न द्योतकत्वमत आह-*तथा. चेति ॥ तात्पर्य्यग्राहकत्वमेवेत्येवकारेण द्योतकत्वस्य वृत्त्यन्तरव्यवच्छेदः । अनुभवा. परीक्षा *व्युत्पत्तेरिति । इदमुपलक्षणम् । यद्यनुभव उपसर्गार्थस्तदा तस्मिन्नर्थे भ्वादेर्धातुसंज्ञान स्यात्, क्रियावाचकत्वाभावादिति । दूषणान्तरमाह-*अन्विति । एतेनानुभवतीत्यादावनुभवः। फलन्तदनुकूलव्यापारो धात्वर्थ इत्यपास्तम् । अनुगच्छतीत्यत्र गमेर्गतिवाचकतया गतेस्वव्यापाररूपतयाऽनुभवाजुकूलव्यापारस्य बोधापत्तिः। यदि तु 'ग्रामं गच्छति' इत्यत्र गमधातोः संयोगावच्छिन्नव्यापारे शक्तस्तया प्रकृतेऽपि स एव धात्वर्थो भविष्यति, तत्र चानुकूलतासम्बन्धेनानुभववैशिष्ट्यम्बाधितमिति नानुभवानुकूलव्यापारप्रत्ययापत्तिरिति विभाव्यते, तदाऽनन्वयापत्तिर्दोषो बोध्यः । नन्वीश्वरमनुभवतीत्यत्रानुभू इतिविशिष्टस्य समुदायस्य सोऽर्थ इति चेत्तत्राप्याह*गौरवादिति । विशिष्टानुपूर्व्याः शक्ततावच्छेदकत्वे गौरवादित्यर्थः। एवं समुदायार्थस्य प्रकृत्यर्थत्वाभावेन प्रत्ययार्थानन्वयापत्तिरित्यपि बोध्या। एवञ्च यत्सिद्धन्तदाह-*तथा चेति । नन्वेतावतोपसर्गस्य तात्पर्यग्राहकत्वसिद्धावपि न द्योतकत्वसिद्धिरत आह-*तथाच तात्पर्येति । एवकारेणान्याग्रह यस्य न, तस्य व्यवच्छेदः । ननूपर्युक्तद्योतकत्वन्तदा प्रादीनामपि क्रियायोगाभावादुपसर्गसंज्ञा न स्यादितिचेद् ? न, क्रियायोगस्य यम्य क्रियाविशेषणीभूतार्थतात्पर्यग्राहकत्वरूपमेवार्थ इति यत्र यस्य फलस्य धात्वर्थव्यापारविशेषणतया प्रतीतिर्यदुपसर्गसमभिव्याहाराधीनात्तत्र तादृशार्थयोजकत्वमादायैवोपसर्गसंज्ञाप्रवृत्तेः। *तत् । निरुक्तं द्योतकत्वम् । उक्तस्य द्योतकत्वस्याङ्गीकारे युक्त्यन्तरमाह

Loading...

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502