Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office
View full book text ________________
श्रीरामाय नमः। श्रीमदुर्बलाचार्यापरनामकृष्णमित्रकृतभूषणसारव्याख्यायाम
धात्वर्थनिर्णयः।
पद्मा प्रतिपदं नित्यमखण्ड वाच्यवाचकम् ।
जगतां प्रकृतिः स्फोटः पदमन्यत्प्रकल्पितम् ॥१॥ *श्रीलक्ष्मीति । रूपिणमिति । ताछील्ये णिनिः । “रसादिभ्यश्च" इति मतुब्विधानस्यान्यमत्वर्थीयनिवृत्यर्थत्वात् । लक्ष्मीरमणस्य स्फोटरूपत्वोक्तिः स्वशास्त्रतत्त्वसुचनाय । यतः स्फोटरूपात्सर्वं जगद्विवर्ताकारं भवति । तदुक्तं हरिणा
अनादिनिधनं ब्रह्म शब्दतत्वं यदक्षरम् ।
विवर्त्ततेऽर्थभावेन प्रक्रिया जगतो यतः ॥ इति । अत्र परावाक् स्फोटशब्देनोच्यते, सैव शब्दब्रह्मेत्युच्यते । शब्दतत्वं शब्दस्य पारमार्थिक स्वरूपं स्फोटस्यैव मुख्यशब्दतया तस्य च ब्रह्मात्मकत्वात् । अक्षरनिामत्तत्वादक्षरं शब्दब्रह्मैव । तत्तत्पदार्थरूपेण विवर्त्तते, यथा रज्जः स्वयमविकृतव सती मायया सर्पाकारेण विवर्त्तते। तत्वादप्रच्युतमेकं ब्रह्म-असत्त्यानेकरूपतां प्राप्नोति। यतः शब्दस्वरूपाज्जगदपा विकाराः क्रियन्ते इति तदर्थः। तात्विकोऽन्यथाभावः परिणामः। अतात्विकोऽन्यथाभावो विवर्त्तः। *तीरम् -नौकाम्। *शेषेति। शेषसम्बन्धिनो शेष. स्यार्थस्य लाभार्थमित्यर्थः । द्वैतेति । द्वैतवाद एव ध्वान्तं-तमः, तन्निवारणमेव फलं यस्याः। पुंसो भावो यस्यां तादृशी, वाग्देवतां सरस्वत्येव पुरुषवेषं धृतवतीति भावः। द्वैतस्य ध्वान्तत्वं तु अविद्यायां सत्यामेव । द्वैतबुद्धः 'एकमेवाद्वितीयं ब्रह्मा इत्यादिश्रुत्या अद्वैतस्यैव तात्त्विकत्त्वात् । *दुण्ढिमिति*। प्रणम्येत्यत्रान्वयः । *श्रीफणीति* । फणिनः स्मरणं तु प्रकृतशास्त्रनिर्मातृत्वेनाभ्यर्हितत्वात् । अस्माभिःभद्दोजिदीक्षितैः । एतेन भट्टोजिदीक्षितकृता एताः कारिका इति सूचितम् ।
अस्य ग्रन्थस्य कारिकारूपस्य वाक्ये क्रियायाः प्राधान्यात् क्रियावाचकस्य धातोरर्थ प्रथमतो निरूपयति-*फलव्यापारयोरिति । दण्डादिव्यापारस्य धात्वर्थत्ववारणायाह-व्यापारस्त्विति ।
ननु यथा किं करोति इति प्रश्ने पचतीत्युत्तरं भवति । एवमस्तीत्युत्तराभावादस्त्यादीनां क्रियावाचकत्वं न स्यादत आह-*यावत्सिद्धमिति । अयम्भावः-क्रमपौपिर्यमाश्रित्य साध्यत्वेन विवक्षितोऽर्थः। क्रिया-घटः क्रियते इत्यत्रापि क्रियाद्वारैव घटस्य साध्यत्वं प्रतीयते, घट इत्येतावन्मात्रात्साध्यत्वाप्रतीतेः। एवञ्चैतदेव क्रिया. वाचकत्वमस्त्यादावप्यस्तीति। *सिद्धमसिद्धम्वेति । सिद्धमपाक्षीदित्यादौ। अ. सिद्धं पचति पक्ष्यतीत्यादौ । ..
ननु क्रियते या सा क्रिया । न च समुदायः कर्तुं शक्यते इत्यत आह-*आश्रिते. ति* । आश्रितः क्रमरूपो यया तथा चाऽवयवानामुत्पाद्यत्वात्तद्वारकं समुदायस्योत्पा
Loading... Page Navigation 1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502