Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 70
________________ वादार्थसंग्रहः [३ भागः विभाषाऽप्राणिषु' इत्यनेन, न त्वां तृणं तृणाय वा मन्य इत्यादौ पाक्षि. की चतुर्थी । अत्रोत्कृष्टस्यापकृष्ठेनाप्युपमानाभावरूपः तिरस्कारः । एवं च त्वद्विशेष्यकतृणसदृशप्रकारकमद्वृत्तिज्ञानीभाव इति बोधः । तृणाय मत्वा रघुनन्दनोऽपीत्यादावपकृष्टेनोपमारूपतिरस्कारः । तृणमिव मत्वेत्यर्थः । गन्त्राऽसंप्राप्ते चेष्टारूपगत्यर्थकर्मणि द्वितीयापवादद्वितीयाचतुर्थीवि. धायकेन “गत्यर्थकर्मणि द्वितीयाचतुथ्यौँ चेष्टायामनध्वनि" इत्यनेनानुशासनेन ग्रामं प्रामाय वा यातीत्यादौ द्वितीयाचतुथ्यौँ । स्त्रियं गच्छतीत्यत्र न, असंप्राप्तत्वविवक्षायां त्विष्टापत्तिः । नयतेरगत्यर्थत्वादजां नयतीत्यत्रापि न । ननु कर्मणि द्वितीयाविधानं व्यर्थ मन्यकर्मण्यनादरे इत्यस्यानन्तरं गत्यर्थकर्मणीति पठित्वा चतुर्थीविकल्पविधानेनापि पक्षे द्वितीयासिद्धेः । न च ग्रामं गन्तेत्यादौ कृद्योगषष्ठीबाधनार्थ तदिति . वाच्यम् । सूत्रप्रत्याख्यानपरेण भाष्येण तत्र पष्ठया एव साधुत्वबोधनात् । तथाहि-अध्याहृतसंदर्शनादि क्रियाभिगम्यमानत्वात्कर्मणा गमनेनाभिप्रेयमाणस्य संप्रदानत्वाचतुर्थी । यदा तु अनध्याहारस्तदा गमनस्याकर्मत्वात् ग्रामस्य कर्मद्वितीया भवति । एवं हि वदता कृद्योगे षष्ठयेवेष्यते । अत एव ग्रामं गमीति अकेनोरितिसूत्रे भाष्ये उक्तम् । एवं च भाष्यमते ग्रामोद्देश्यकोत्तरदेशसंयोगानुकूलव्यापारविषयकं संदर्शनादीति बोधः । सूत्रमते तु ग्रामकर्मकं यानमिति बोधः । उत्पत्तिरूपक्लुप्त्यर्थवाचकधातुयोगे कार्यकारणयोर्भेदविवक्षायां कारणस्य कार्यात्मना परिणामविवक्षायां कार्यवाचकात्षष्ठ्यपवादचतुर्थीविधायकेन 'क्लपिसंपद्यमाने च' इत्यनेन भक्तिर्ज्ञानाय कल्पते संपद्यते जायते वेत्यत्र चतुर्थी । भक्तिकर्तृका ज्ञानसंबन्धिन्युत्पत्तिरिति बोधः। अभेदे तु प्रथमैव भक्तिर्ज्ञानमिति । हेतुत्वेन विवक्षायां तु जनिकर्तुरित्यपादानत्वात्पञ्चमी । भक्तेर्ज्ञानमिति । न च तादर्थ्यचतुर्थ्यां गतार्थ परिणामत्वेन बोधस्य विवक्षितत्वात् । भक्तिर्ज्ञानात्मना परिणमत इत्यत्र त्वात्मशब्दस्तद्वृत्तिधर्मपरः । ज्ञानत्वविशिष्टरूपान्तरप्राप्तिर्भक्तिकर्तृकेत्यर्थः । एवं च विकारवाचकाभावान्न चतुर्थी । यत्तु शब्देन्दुशेखरे प्रथमापवादोऽत्र क्लपिसंपद्यमाने चेत्यनेन विकारवाचकाचतुर्थी विकारे च प्रकृतिरूपारोपः भक्तिरूपज्ञानकर्तृकोत्पत्तिरित्यर्थः । प्रकृतिविकृत्योर्भेदविवक्षायां तु प्रकृतिविकृतिभावाप्रतीतेर्जनि

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122