Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
वादार्थसंग्रहः
[३ भागः क्रियामुख्यविशेष्यकः, शाब्दबोधत्वात् , चैत्रेण सुप्यत इति शाब्दबोधवत् । प्रथमान्तार्थमुख्यविशेष्यकत्वं प्रति तु न शाब्दबोधत्वं साधकम् , गच्छति पचति चैत्रेण सुप्यत इत्यादिप्रथमान्तासमभिव्याहारस्थलीयशाब्दबोधे व्यभिचारादिति ।
ननु भवन्मतेऽपि घटोऽयमित्यादिक्रियापदासमभिव्याहारस्थलीयशाव्दबोधे व्यभिचार इत्याह
यत्र क्रियापदं नास्ति प्रथमान्तं च वर्तते । तत्रापि लट्परस्यास्तेरध्याहाराददूषणम् ॥२॥ यत्र घटोऽयमित्यादौ क्रियापदं नास्ति प्रथमान्तपदं च वर्तते तत्रास्ति लट्परमध्याहृत्य शाब्दबोधस्य क्रियामुख्यविशेष्यकत्वमुपपादनीयम् । न च तत्र विनाऽपि क्रियापदं प्रथमान्तपदादेव शाब्दबोधोदयसंभवात् क्रियापदाध्याहारे प्रमाणाभाव इति वाच्यम् । तिङ्समानाधिकरणे प्रथमेति वार्तिकेन प्रातिपदिकस्य तिङ्सामानाथिकरण्य एव ततः प्रथमाविधानात्तत्र क्रियाध्याहारं विना प्रथमाया एवानुपपत्तेः । अत एव वार्तिककारेणाप्युक्तम्-अस्तिर्भवन्तीपरः प्रथमपुरुषेऽप्रयुज्यमानोऽप्यस्तीति । भवन्तीपर इति । भवन्तीशब्दो “भुवो झिज्" इति औणादिकसूत्रेण सिद्धो वर्तमानकालार्थकोऽपि तद्वाचकत्वलक्षणया लट्परः । तेन प्रथमपुरुषे लडन्तास्तिधातुरप्रयुज्यमानक्रिये वाक्ये नित्यमध्याह्रियत इति कात्यायनवाक्यार्थः । सूत्रे भुव इति वदतेरवतेश्वोपलक्षणम् । तेन वदतिरवतिरित्यपि सिद्धम् । झिच्प्रत्ययान्ताः सर्वे स्त्रियां द्वयोर्वा, किंव. न्दती जनश्रुतिरिति दर्शनात् । इतिपद्वाक्यरत्नाकरः । स्त्रियां द्वयोवेति मतभेदेन बोध्यम् । अनभिहित इतिसूत्रे कैयटोपाध्यायोऽपि भवन्तीपर इति लट्पर इत्यर्थ इति व्याचख्यौ । प्रथमपुरुष इति प्रायिकम् । त्वं वक्ता अहं श्रोतेत्यादौ प्रथमोपपत्त्यर्थ मध्यमोत्तमपुरुषयोरपि लट्परस्यास्तेरध्याहारस्यावश्यकत्वात् । त्रयः काला इत्यत्र त्रयाणां कालानां सत्ताया वर्तमानत्वाभावेन लट्परस्यास्तेरध्याहारासंभवेऽपि तत्र प्रतीयन्त इति क्रियापदमध्याहृत्य प्रातिपदिकस्य तिङ्सामानाधिकरण्यमुपपादनीयम् । न चैवमस्तिर्भवन्तीपरः प्रथमपुरुषेऽप्रयुज्यमानोऽप्यस्तीति वार्तिककारोक्तनियमभङ्गप्रसङ्ग इति वाच्यम् । तत्रास्तेररुपलक्षणत्वात् । तिङ्समानाधिकरणे प्रथमेत्यनुरोधेन यत्र क्रियापदं नास्ति तत्र प्रथमोपप
Loading... Page Navigation 1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122