Book Title: Vadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 113
________________ १२ प्रन्थः ] शाब्दबोधप्रकाशिका | ९९ किं चाख्यातस्य कृतिवाचकत्वे चैत्रो ग्रामं गच्छति, चैत्रस्तण्डुलं पचतीत्यादौ चैत्रादिपदात्कर्तरि तृतीया प्राप्नोति । तस्य कर्तृवाचकत्वे तु न तृतीयाप्राप्तिः । आख्यातेन कर्तुरभिहितत्वात् । 'कर्तृकरणयोस्तृतीया " इत्यनेन हि अनभिहिते कर्तरि तृतीया विधीयते । तत्रानभिहित इत्यस्य तिङादिभिरनुक्त इत्यर्थः । अथाख्यातस्य कृतिवाचकत्वे कर्तुरनभिहितत्वेऽपि तद्गतसंख्याया आख्यातेनाभिहितत्वादुक्तस्थले तृतीया न भवति । अनभिहित इत्येतद्धि संख्याविशेषणम् अनुक्ते संख्याने इत्यर्थः । अथवा अभिधानमभिहितम् " नपुंसके भावे क्तः " तथा चाभिनभिहिते अनभिधाने संख्याया इत्यर्थः । न चान्यत्र लृप्तशक्तेः सुप एव संख्योपस्थितिसंभवे न तिङयं तदभिधायकत्वमिति वाच्यम् । चैत्रो मैत्रश्च गच्छत इत्यादौ विनाऽपि तादृशसुपं द्वित्वादिप्रत्ययात् । लाघवादेकवचनत्वादिरूपेणैकत्वादौ शक्तत्वाच्च । सुबेकवचनत्वादिरूपेण शक्तिकल्पने तु गौरवं स्यादिति चेन्न । संख्यायाः शब्दतोऽलाभादध्याहारे च प्रमाणाभावात्कर्मणि द्वितीयेत्यादिसूत्रोपात्तकर्मणीत्यादिनैवाभिहित इत्यस्यान्वयसंभवाच्च । किं चानभिहितपदस्य संख्यानभिधानपरत्वे चैत्रो ग्रामं गच्छतीत्यादौ कर्त्राख्यातार्थसंख्याया विनिगमनाविरहेण कर्मण्यप्यन्वयापत्तेदुर्वारत्वाद्गामादिपदाद्दितीयाऽपि न स्यात् । आख्यातस्य कर्तृवाचकत्वे तु तद्र्थसंख्यायाः कर्मण्यन्वयो न भवति तस्यैकपदोपात्तत्वाभावात् । एकपदोपात्त एव साधने आख्यातार्थसंख्यान्वयस्य व्युत्पन्नत्वात् । आख्यातस्य कृतिवाचकत्वे तद्वक्तुमशक्यम् । न चाख्यातार्थभावनान्वयिन्येव तदर्थसंख्याया अन्वयः, एकपदोपात्तयोर्भावना संख्ययोरेकत्रान्वयस्य व्युत्पन्नत्वादिति वाच्यम् । एकपदोपात्तभावनान्वयित्वापेक्षया लाघवेनैकपदोपात्तसाधनत्वस्यैव संख्यान्वयनियामकताकल्पनाया युक्तत्वात् । कर्त्रेकत्वत्वादिना शक्तिकल्पने कर्तुरप्यभिधेयतया शक्यतावच्छेदके शक्ततावच्छेदके च गौरवमधिकं स्यात् । किंच गन्ता चैत्रः, अधीती ब्राह्मणः कृतप्रणामो जनः इत्यादिषु कृदन्तादिषु कृत्तद्धितसमासैः संख्याया अनभिधाना चैत्रब्राह्मणजनादिशदेभ्यस्तृतीयापत्तिर्दुर्वारा। अथ कर्तृकरणयोस्तृतीयेत्यत्र कतृपदं कर्तृत्वपरम् । तेनानभिहिते

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122