Book Title: Updeshpad Mahagranth Part 01
Author(s): Pratapvijay
Publisher: Muktikamal Jain Mohan Mala

View full book text
Previous | Next

Page 976
________________ श्रीउपदे शुद्धयो शपदे गे दुर्गतानारी ॥४२०॥ SAROSAROSAROKAR व्यजन्मनि । एते चाष्ट भवाः सप्तभिर्देवभवैरन्तरिताः पृथगेव ग्राह्याः । अन्यथोभयजन्मगणनायामष्टमो देवभव एव स्यात् । न च तत्र सिद्धिः संभवतीति ॥१०२४ ॥ यथा चाष्टमजन्मनि सिद्धस्तथाह-कनकपुरे कनकध्वजो राजा भूत्वा शरत्क्षण इन्द्रोत्सवस्तदर्थ नगराद्' वहिनिर्गमने कृते दृष्ट्वा वैशसमसमंजसमिदं वक्ष्यमाणं जातः प्रत्येकबुद्धः । इतिः प्राग्वत् ॥१०२५ ॥ वैशसमेव दर्शयति-मण्डूकसर्पकुरराजगराणां क्रूरं दारुणं परम्पराग्रसनं दृष्ट्वैत्यनुवर्तते । तथा हि-मण्डूकं सर्पण, सर्प कुररेण पक्षिविशेषेण, कुररं चाजगरेण ग्रस्यमानं ददर्श । ततः परिभाव्यैवं मण्डूकादिन्यायेन 8 लोकं सर्वजनपदगतं हीनादिभेदं हीनमध्यमोत्तमभेदं परस्परया ग्रस्यमानं प्रत्येकबुद्धो जातः । इतिः प्राग्वत् ॥१०२६ ॥ यथा परिभावितवांस्तथा चाह-मण्डूक इव लोको हीनो जातिकुलविभवादिना इतरेण बलवता पन्नगेनेवार जगति अस्यते सपीडः सन्नुपजीव्यते, सोऽपि कुररसमानेनान्येन बलवत्तरेण ॥ १०२७ ॥ सोऽपि च बलवत्तरो नात्र स्ववशो| यस्मादजगरकृतान्तवशगः-अजगराकारवशवी इत्यस्मात् कारणादेवंविघेऽपि लोके विषयप्रसंगो विषयसुखगृद्धिलक्षणो महामोहः परममूर्खत्वलक्षणः॥ १०२८॥ इत्येवं चिन्तयित्वा भयं मृत्युलक्षणं सम्यक् संजातचरणपरिणामो राज्यं त्यक्त्वा, तथेति समुच्चये, जातः क्रमेण श्रमणः शमितपापः ॥ १०२९ ॥ सिद्धश्च केवलिश्रियं परमां संप्राप्याऽयोध्यायां शक्रावतारनाम्नि परमशिवे परमकल्याणहेतुत्वाच्चैत्येनोपलक्षिते उद्याने॥ १०३० ॥ दुर्गतनारीउदाहरणं समाप्तम् ॥ अण्णेवि एत्थ धम्मे रयणसिहादी विसुद्धजोगरया। कल्लाणभाइणो इह सिद्धा णेगे महासत्ता ॥१०३१॥ अन्नेवीत्यादि । अन्येऽप्यत्र जैनधर्मे रत्नशिखादयो रत्नशिखप्रागुक्तसुदर्शनश्रेष्ठिप्रभृतयो विशुद्धयोगतः सर्वोपाधिशु ROCESSORRESSESGRESSES ॥४२० ॥

Loading...

Page Navigation
1 ... 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008