Book Title: Syadvada Ratnakar Part 3
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 207
________________ ६७८ प्रमाणनयतत्त्वालोकालङ्कारः परि. ४ सू. १० भावः । " अर्थापत्तिरियं चोक्ता पक्षधर्मादिवर्जिता ॥ यदि नाशिनि नित्ये वा विनाशिन्येव वा भवेत् ॥ १॥ शब्दे वाचकसामर्थ्य तदा दूषणमुच्यताम् " ॥ यदि शब्दे नाशिनि नित्ये वा वाचकसामर्थ्यमित्यनेन संशय उक्तः । विनाशिन्येव वा शब्दे वाच५ कसामर्थ्यमित्यनेन तु विपर्यय उपदर्शितः । तदा दूषणमुच्यतामिति । यदैव शब्दे वाचकसामर्थ्य सन्दिग्धं विपर्यस्तं च स्यात्तदा दूषणावसरः । एतम्चात्रोभयमपि नास्तीति भावः । " न दृष्टार्थसम्बन्धः शब्दो भवति वाचकः । तथा चेत्स्यादिपूर्वोऽपि सर्वः सर्व प्रकाशयेत् ।। १॥ सम्बन्धदर्शनं चास्य नानित्यस्योपपद्यते ॥ सम्बन्धज्ञानसिद्धिश्वेत ध्रुवं कालान्तरस्थितिः ॥२॥ अन्यस्मिन् ज्ञातसम्बन्ध न चान्यो वाचको भवेत् ।। गोशब्दे ज्ञातसम्बन्धे नाश्वशब्दो हि वाचकः ॥३॥" अथ मतं सदृशतया शब्दस्यार्थप्रतिपनिहेतुत्वोपपत्तेनीर्थापत्तितोऽस्य नित्यत्वसिद्धिः । पुनः पुनरुच्चार्यमाणो हि शब्दः सादृश्यादेकत्वेनाव्यवसीयमानोऽर्थावबोधं विदधाति न पुनर्नित्यत्वादिति । तदपि क्षोदक्षमम् । सादृश्येन शब्दादर्थावबोधासम्भवात् । न हि सदृशतया शब्दः प्रतीयमानो वाचकत्वेन निश्चीयते । किं त्वेकत्वेन ! य एव हि सङ्केतावसायसमये मया ध्वनिरुपलब्धः स एवायमिति प्रतीतेः । अपि च सादृश्यादर्थप्रतीतौ भ्रान्तः शाब्दप्रत्ययः स्यात् । न ह्यन्यस्मिन्गृहीतसङ्केतेऽन्यस्मादर्थप्रतीतिर२० भ्रान्ता भवति । गोशन्दे गृहीतसङ्केतेऽश्वशब्दाद्वार्थप्रतीतेरभ्रान्तत्वप्र. सक्तेः । न च भूयोऽवयवसाम्ययोगम्वरूपं सादृश्यं शब्दे सम्भवति । विशिष्टवर्णात्मकत्वाच्छब्दानाम् । वर्णानां च निरवयवत्वात् । न च गत्वादिविशिष्टानां गादीनां वाचकत्वं युक्तम् । गत्वादिसामान्यस्याभावात् । तदभावश्च गादीनां नानात्वायोगात् । सोऽयमिति प्रत्यभिज्ञया तेषामेकत्व १ मी. श्लो. वा. शब्दनित्यताधिकरणे श्ला. २३॥२३८. २ मी. श्लो. स. ५ स. लो. १४०, १४। "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256