Book Title: Syadvada Ratnakar Part 1
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
ॐ नमः सर्वज्ञाय । श्रीवादिदेवसरिविरचितः प्रमाणनयतत्त्वालोकालङ्कारः
तद्वथाख्या च
॥ स्याद्वादरत्नाकरः ॥
ROOOOOOOO
-----
नमः परमविज्ञानदर्शनानन्दशक्तये ॥
श्रीयुगादिजिनेन्द्राय स्वायत्तीकृतमुक्तये ॥ १॥ एकस्यापि तुरङ्गमस्य कमपि ज्ञात्वोपकार सुर
श्रेणीभिः सह पष्टियोजनमितामाक्रम्य यः काश्यपीम् ।। आरामे समवासरद् भृगुपुरस्येशानदिमण्डने । ___ स श्रीमान् मयि सुव्रतः प्रकुरुतां कारुण्यसान्द्रे दृशौ ॥ २॥
१ अनुष्टुप् । २ शार्दूलविक्रीडितम् । ३ गूर्जरप्रदेशेऽपुना भडोच ' इति यातस्य । ४ विशस्तीर्थंकरः । ५ श्रीमुनिसुव्रतस्वामितीर्थे लाटदेशमंडनभृगु• कच्छपुराधिपो जितशत्रुनामा राजा आसीत् । एकदा तेन राज्ञा यझे स्वतुरंग ६ भालब्धव्य इति निश्चयः कृतः । एतदभिज्ञानपूर्णा सम्प्राप्तकेवलज्ञानदर्शनाः ससुर
रा: श्रीमन्तो भगवन्तो मुनिसुव्रतस्वामिनः एकस्यां रात्रौ योजनानां षष्ठिमुल्लंध्य भृगुकच्छे कोरण्टवनं सम्प्राप्ता देशनान्ते तत्र अश्वेन सह राजाजितशत्रुः समागत: भगवन्तं वन्दित्वा सम्मुखमुपविष्टः । भगवद्भिरपि तत्प्रबोधाय तस्य अश्वस्य आत्मनश्च पूर्वभवः कथितः । तत्समाकर्ण्य जातजातिस्मृतिस्तुरंगमः सम्यक्त्वमूलं दश. विरतिधर्म सचित्ताहारवर्जनं स्वीकृतवान् । अयमश्वः षण्मासान्ते मृत्वा सौधर्मावतंसके महर्षिको देवः संजातः । ततस्तेनावधिज्ञानद्वारा स्यपूर्वभवो ज्ञातः । अथ च तेन स्वामिसमवसरणस्थाने रत्नमयश्चैत्यः प्रभुप्रतिमाश्वर्तिश्च कारिता प्रतिष्ठापिता च । तत्कालात्तत्स्थानं ' अवावबोधतीर्थ' इति ख्यातिमदभूत् ।
"Aho Shrut Gyanam"

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 274