Book Title: Syadvada Ratnakar Part 1
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
परि. १ सू. १] स्याद्वादरत्नाकरसहितः नित्योद्युक्तत्वेन प्रतिपक्षक्षेपकत्वेनासन्मोहाध्यवसायित्वेन चोत्साहप्रतीतेवीररसश्च भगवतोऽरागवतो रागद्वेषेति विशेषणेन व्यज्यते । विशेषणचतुष्टयेन चान्यतीर्थिकतीर्थेशेभ्यो भगवतः समधिकत्वावगतेर्व्यतिरेकालङ्कारो ध्वन्यते । एवं चासाधारणगुणाधिकरणतया भगवतः परमगुरुत्वं ख्यापितं भवति । तथाहि परमो गुरुभगवान् बर्द्धमानो ५ रागद्वेषविजेतृत्वात् विश्ववस्तुज्ञातृत्वात् शक्रपूज्यत्वात् वागीशत्वाच यः पुनर्नाभिहितसाध्यसम्पन्नः स न यथोक्तसाधनाधारो यथा सम्प्रतिपन्नः । एतेनापरगुरुरपि गणधरादिरस्मद्गुरुपर्यन्तो व्याख्यातः । तस्यैकदेशेन निगदितसाधनाधिकरणत्वादपरगुरुत्वोपपत्तेः ।
अत्राह कश्चिद्, भवतु नामैवं परापरगुरुप्रवाहस्य प्रसिद्धिः । तथापि १० परापरगुरुप्रवाहस्मरण कथमसौ प्रकृतशास्त्रस्य सिद्धिनिबन्धनं येन शास्त्रसिद्धिनिबन्धनमस्ति तदारम्भे तस्य स्मृतिः श्रेयसीति तत्रैके समाद
प ' धते परापरगुरुप्रवाहस्य स्मरणाद् धर्मविशेषोत्पत्तेरधर्मध्वंसात् तद्धेतुकविघ्नोपशान्तरभीप्सितशास्त्रपरिसमाप्तितः स तसिद्धिनिबन्धनमिति तन्न तर्कानुकूलम् । एवं हि तेषां प्रस्तुतशास्त्रा- १५ रम्भे पात्रदानादिकमपि कर्तव्यकक्षामास्कन्देत् । पराफ्स्गुरुप्रवाहस्मरणवत् तस्यापि धर्मविशेषोत्पत्तिहेतुत्वाविशेषादभिहितशास्त्रसिद्धिनिबन्धनत्वोपपत्तेः । मङ्गलत्वात् आप्तस्मरणं शास्त्रसिद्धिनिवन्धनमित्यपरे । तदपि त्रपापात्रम् । स्वाध्यायादेरपि मङ्गलत्वाविरोधात् न खलु परापरगुरुपरम्परास्मरणमेव मङ्गलमिति क्षितिपतिशासन समस्ति । २०. परापरशुरुषबन्धानुध्यानाद् ग्रन्थकारस्य नास्तिकतापरिहारसिद्धितस्तद्वचनस्यास्तिकैरादरणीयत्वेन सर्वत्र ख्यात्युपपत्तेस्तदनुध्यानं तात्सद्धिनिबन्धनमिति कतिपये । तदपि न चतुरचेतोहरम् । आत्मादिपदार्थ
न
१ नयादिविभावः स्थैर्याद्यनुभावो धृत्यादिव्यभिचार्युत्साहो धर्मदानयुद्धभेदो वीरः । धर्मवीरो नागानन्दे जीमूतवाहनस्य । दानवीरः परशुरामबलिप्रभृतीनाम् । युद्धीरो वीरचरिते रामस्य । का. अ. २ । २ गणधरात् श्रीमुनिचन्द्रसूरिः ४१तमः।
"Aho Shrut Gyanam"

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 274