Book Title: Siddha Hem Llaghu Vrutti Avchuri Parishkar
Author(s): Jitendravijay
Publisher: Ranjanvijay Jain Pustakalay

View full book text
Previous | Next

Page 432
________________ द्वितीयपादः ] अवन्त्रिपरिष्कारसहितायाम् । ३९३ परहितम् ॥ अद्यञ्जनात्सप्तम्या बहुलम् ॥ १८॥ अदन्ताद्वयञ्जनाच परस्याः सप्तम्या बहुलं नाम्नि लुब् न स्यात् । अरण्येतिलकाः युधिष्ठिरः। अव्यञ्जनादिति किम् ? भूमिपाशः। नाम्नीत्येव ! तीर्थकाकः ॥ प्राकारस्य व्यञ्जने ॥ १९ ॥ राजलभ्यो रक्षा. निवेशः कारः। प्राचां देशे यः कारस्तस्य संज्ञायां गम्यमानायामद्वयञ्जनात्परस्याः सप्तम्या व्यञ्जनादावुत्तरपदे लुब् न स्यात् । मुकुटेकार्षापणः, समिधिमाषकः । प्रागिति किम् ? यूथपशुः, उदीचामयं न प्राचां । कार इति किम् ? अभ्यर्हितपशुः । व्यञ्जन इति किम् ? नाम्नीति चानुवर्तते । परस्मै हितं परहितम् ।। अच्च व्यञ्जनश्च तस्मात् , सप्तम्याः, बहुलम् । लुब्न नाम्नीति वर्तते । अरण्येतिलका इति अदन्तात्परस्याः सप्तम्याः उदाहरणम्, नाम्नीति समासः । युधिष्ठिर इति व्यञ्जनान्तात्परस्याः, गवियुधेः स्थिरस्येति षत्वम् । भूमौ पाश इव भूमिपाशः, न चात्र संज्ञाशब्दत्वाभाषादेवालुब्न भवतीति वाच्यम् , संज्ञा हि कचित्साध्यमाना, कचिच्चासाध्यमाना भवति, ततश्चात्र साध्यमाना संज्ञा अस्तीति प्रत्युदाहृतम् । तीर्थे काक इव तीर्थकाकः, काकाद्यैरिति समासः। प्राचां कारस्तस्य, व्यञ्जने । नाम्नि, अव्यञ्जनात् सप्तम्याः उत्तरपदे लुन्न इति वर्तन्ते, एवमग्रे । मुकुटे मुकुटे कार्षापणो देय इति मुकुटे कार्षापणः, पूर्वदेशप्रसिद्धः मुद्राविशेषस्तस्मिन्देशे यो मुकुटं बध्नाति स: कार्षापणं गृहाति । समिध इन्धनभारकं यस्तस्मिन्देशे आनयति, स हिरण्यादिमाषकं गृह्णातीति समिधिमाषको देयः समिधिमाषकः, नाम्नीति समासः, यदि पूर्वदेशप्रसिद्धं भवति । यूथे यूथे देयः पशुः यूथपशुः, उदीचां देशे कारोऽयं न तु प्राचाम् । अभ्यर्हिते अभ्यर्हिते देयः पशुः अभ्यर्हितपशुः, प्राचां देशे कारादन्यस्य नामैतत् । अवि. कटे अविकटे उरणो दातव्यः अविकटोरणः, अविकढ़ः अवीनां

Loading...

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470