Book Title: Shravak Pragnapti Author(s): Keshavlal Premchandra Publisher: Nirnaysagar Press View full book textPage 8
________________ अयं सूरिःप्रागतिप्राचीनसमये समुदियायेत्येतदनन्तरोक्तप्रमाणेभ्यः प्रमीयते। नात्रेषदपि संदेहदावदग्धं किमपि । विषये प्रस्तुते डॉक्टरपिटर्सनेन प्रकाशिते ताीयीके रिपोर्टाभिधेये प्रसिद्धिपुस्तके षट्त्रिंशत्तमे पृष्ठे-श्यामाचार्यों नाम वाचकव न्तेिवासी श्रीवीरनिर्वाणाषट्सप्तत्यधिकशतत्रय(३७६)प्रमिते हायनेऽनेहोधर्ममभ्याजगामेत्यलिख्यत। बलिसहस्यान्तेवासी स्वातिगुरुः श्यामाचार्यस्य इति पट्टावल्यामवलोक्यते। परं स स्वातिरयमुमास्वातिश्चेति द्वावप्येकनरनामनी इत्येतदपि संदेहकलितम् । तत्त्वार्थभाष्ये दशमेऽध्याये समाप्तिसमय उमास्वातिवाचक उच्चनागरीशाखीय इति स्वयमेवालिलिखे । उच्चनागरीशाखा श्रीमहावीरस्वामिद्वादशपट्टनिवासिनः श्रीमदार्यशान्तिश्रेणिकादाविबभूवेति कल्पसूत्रान्तर्गतस्थविरावल्याम् । श्रीमहावीराष्टमपट्टोदयोदितस्य भगवतः श्रीमदार्यमहागिरेरन्तेवासी बलिसहाचार्यो ऽभवत् । तत्त्वार्थाधिगमीयदशमाध्यायावसाने स्वयं लिखितात्स्वचरिताद्यदवगम्यते तद्यथा-शिवश्रीप्रशिष्यः श्रीमद्धोषनन्दिश्रमणशिष्यः वाचनान्वयेन तु मुण्डपादप्रशिष्यः मूलवाच्यवाचकाचार्यशिष्यः श्रीमदुमास्वातिरभूदिति । जन्म च तदीयं न्यग्रोधिकासंनिवेशे समभवत्। विहारागतकुसुमपुरे ऽयं व्यरच्यत । स्वजनुषायं कौभीषणगोत्रमभूषयत् । आसीत्स्वातिनोमैतज्जनिकर्ता जनकः । गुरुजननिरतास्य जननी पुत्रवत्सला वत्सगोत्रभवा । ग्रन्थेऽस्मिन्प्रथिता ये विषया विद्यन्ते ते विद्वजनैर्विदित्वा वि न्तेवासी बलिसहमायदशमाध्यायावयः श्रीमद्धोPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 228